पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ विशिष्टाद्वैत सिद्धिः [ ६५ परित्याज्यमिति कुत्तः, इति ह्यत्र धीमन्तः पृच्छेयुः ? 'तथा सति मया क्रियमाणस्य परदूषणस्यावकाशो न स्यान', इत्येव जडेन निर्लज् प्रतिवक्तव्यम् । अथ परपरित्यागस्य हेतुः समानाधिकरणयोः पदयोर्मध्ये भाष्यपद्- निवेशी न युज्यत इति । इदमयुक्तत्वं कृतकोटिनेत्यम्य परित्यागेऽपि परिहृतं भवति । 'मीमांसाशास्त्रस्य भाष्यं बोधायनेन कृतम्' इति पाठ- निष्पत्तेः । अथवा न किञ्चित् परित्याज्यम् । पाठान्तरानुराधात् अक्षरत्र- ययोजनेन 'कृतकोटिनामधेयं भाप्यं बोधायनेन कृतमित्येव शोधनस्य युक्तत्वात् । समानाधिकरणपदमध्ये पदान्तरनिवेशनमसमञ्जसमिति च वाक्यशैलीविशेषसंस्तवशून्यस्य वचनम् | वाक्यशोभां मन्वाना हि मन्थकाराः बुद्धि पूर्वमेवं पदानि पदान्त रैर्व्यवद्धति । यथा - तस्माद् ग्रथाऽनधीयानस्येष्टौ निषादस्थपनेरधिकारों वचनान् इति भामत्यां अपशूद्राधिकरणपूर्वपक्षान्ते । यः पुनरन्ते परिवादः A तेनावश्यकर्तव्य एव । अभिज्ञहृदयङ्गमाभिर्युक्तिभिरभिमतमर्थं साधयितु- मक्षमस्य कोपेनैव पूरणस्य कर्तव्यत्वात् । पाठद्वयम्यापि कल्पितत्वं वदति । अन्यतरपाठेनापि हीनं कर्ता प्रथमं लिलेखेव । पाठद्वयकल्पनं च किं मातृकावस्थायामेव, उत मुद्रणावसरे | मुद्रणकाराः के शोधन- काराः के। ग्रन्थकारः कः । मातृका कुत्र स्थिता । कैः रक्षिता ! कुत्र लब्धा । किं तत्र विशिष्टाद्वैताभिनिविष्टाः केचिद्गच्छन्, इत्यादि पर्या- लोच्य हि कल्पनापत्र उत्प्रेक्षणीयः | लोकशास्त्रमर्यादयोः अत्यन्ता- नभिज्ञोऽयं वृश्चिकानां विषं पुच्छे मक्षिकारणां शिरस्पदे | दुर्जनानां पुनर्लोके सर्वाङ्गीसमवस्थितम् || इति वर्णितानां व्यक्तिविशेषाणामयेसरः दुर्भाषते ।