पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ विशिष्टाद्वंतसिद्धिः [ ३७ : ४० एव शिवात् सकलचेतन ( चेतनाचेतन ? ) प्रपञ्चपरिामः । अत एव 'सर्वो वै रुद्रः' इति परमेश्वरस्य सर्वात्मताऽभिधान मुपक्रम्य, "पुरुषस्य नारायणस्य सर्वात्मत्वम् । उपादानत्वात् । कथमस्य सर्वात्मत्वम " इत्याशङ्कायां 'पुरुषो वै रुद्रः' इति, 'पुरुषस्य विद्म सहस्राक्षस्य महादेवस्य धीमहि' इति च पुरुपोऽपि परमेश्वरस्य महाविभूत्यात्मा जगदाकार इति निरू- पितम् । इति । शैवाना मेवेयं प्रक्रिया | नचोपपन्ना | तथा हि | शिवस्य परा शक्तिः किंरूपेति विवेचनीयम। किं धर्मभूतज्ञानरूपा अथवा वह दर्दाहकत्वमव • तत्तःकार्य करण सामर्थ्यरूपा, यद्वा उभयात्मिका ? आद्ये तथा ईश्वरस्य सर्वज्ञत्वं भवेन्, न तु सर्वशक्तत्वम् । द्वितीये ज्ञातृत्वं न सिद्धय त् । नतरां सर्वज्ञत्वम् | तृतीये असम्भवः । ज्ञानस्य विषयप्रकाशमात्रानुकूलत्वात् । अन्यस्याः तत्तद्वस्तूत्यत्त्यनुकूलत्वात् । उभयारैक्यायोगात् । ज्ञानमन्यत् शक्तिरन्येति चेत् सुष्षूक्तम् । न त्वंवं श्रीकण्ठांऽभ्युपगच्छति । अधेय शक्ति: ईश्वरवत् जीववच्च किं चेतनभूता अथवा अचेतनभूता ? आ अचेतनप्रपञ्चप्रकृतित्वानुपपत्तिः । न हि चिद्वस्तु किञ्चित् चित्त्वं त्यक्त्वा अचिद्भवतीति वक्तुं शक्यम्, प्रमाणं वाऽस्ति । किव्व ईश्वरतुल्यं वा तस्याश्चेतनत्वं, जीवतुल्यं वा ? आद्ये ईश्वरस्य ईश्वरान्तरं विशेषण- `मिति स्यात् । तुल्यत्वे विशेषणत्वं न घटते । विशेषणत्त्रे तुल्यत्वं न घटत इति व्याघातश्च | तुल्यत्वे अनेकेश्वरप्रसङ्गञ्च | जीवतुल्यचेतनत्वे जीवा- न्तरवदयमध्येको जीव इति नानेन ईश्वरस्योपादानत्वादिनिर्वाहः सुकरः । अथेयं शक्तिरचेतनभूतेति चेत् तर्हि 'सा प्रथमभोकृत्वदशायां पुरुष उच्यते, यः सहस्रशीर्षा पुरुष इति श्रूयते' इत्येतदनुपपन्नम् । अचेतनाया भोक्ततया वा पुरुषतया वा परिणामायोगात् । नन्वचेतना शक्तिः परिणत