पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुबन्धः ३३३ ग्यात् । अतोऽत्र उपमा माह्या हिरण्यतुल्य इति । तदिदं वाक्यकारे- गोक्तम् । इदमुपपादयन् द्रमिडभाष्यकार आह~- न मयडत्र विकारमा- दाय प्रयुज्यते अनारभ्यत्वादात्मनः ।' इति । परमात्मस्वरूपस्य वा वित्र- हस्य वा आरभ्यत्वे, उत्पाद्यत्वे सति तत्र हिरण्यविकारत्वशङ्काया अपि वाऽवसरो भवेत् । तत्तु नास्ति । उभयोर्नित्यत्वश्रवणात् । अतोऽत्र रूपस्या कृतकृत्वमभिमतं सिद्धं च । न ह्यत्र शरीरस्योत्पाद्यत्वं सिद्धं कृत्वा तत्र हिरण्यस्योपादानत्वं निषिध्यते, येनकृतकत्वं न सिद्धयत् । अनारभ्यत्वादित्युत्पाद्यत्वस्यैव निषेधात् । ३६. कप्यासं पुण्डरीकमेवमक्षिणी, इत्या कप्यासमित्यस्य वाक्य- कारोक्तेषु षट्स्वर्थेषु यो यमिच्छति स तं गृह्णातु । न मे यत्र क्वापि निर्भर इति श्रीशङ्करो मेने । मर्कटपृष्ठभागरूपेऽर्थे हीनोपमादोषशङ्काप- रेजिहीर्षया “कप्यास इव पुण्डरीकमत्यन्ततेजस्वि । एवमस्य देवस्या - क्षिण । उपमितीपमानत्वात् न हीनोपमा" इत्येतमेकमर्थमभिधाय शङ्कनीय दोषपरिहारं कृत्वा विरराम | भगवद्भक्तिरसज्ञो यतिराजः तद्- नुरूपं चरममत्रयं परिजग्राह | तदनादरव्यञ्जतं प्रथमस्य त्रयस्य पुर्वपक्षत्वमुपपादग्रामास व्यासार्यः । अस्यां स्थित श्रीभाध्यकारप्रभृतयः हीनोपमादोषं शङ्करे वदन्तीति भ्राम्यन् अभिनिविष्टो दीक्षितः स्वव्या- ख्येयमूलग्रन्थमप्याक्षिप्य "एवं चात्र केषाञ्चित् वेदपरिहरणीयन्यायविरोधमविगणय्य काव्यपरिहरणीयहीनोपमादोषभयात् कपिशव्दस्य सूर्ये योगा- श्रयणमारोपितवृश्चिकभयादाशीविषमुखे निपतनम् । हीनोपमा- दोषमेकं परिहर्तुं प्रवृत्तानां च तेषां ब्रह्मोपासनां कुर्वन्ति ( न्तं प्रति ) ब्रह्महत्यां करोनीति वदतामिव अश्लीलनिहतार्थत्वरूपौ द्वौ दोषौ प्रसज्येयाताम् । महीनोपमादो- षादपि च तदभिव्यक्तिस्थाने भगवति सूर्ये मर्कट प्रतिद्धकपि-