पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७:१८ ] अनुबन्धः ३०६ तानि च तानि.... द्रमिडभाष्यकृता' इति ब्रह्मनन्दिनं विहाय द्रमिड- भाष्यकृत्रिर्दिष्टः । अनेन ब्रह्मनन्दी विरुद्धमतावलम्बीति तस्मिन्ननादरो दर्शित इति न प्रत्येतव्यम् । द्रमिडभाष्यमूलकारत्वेन तदादरणीयत्वस्य सिद्धत्वात् । व्यासपूजायां ब्रह्मनन्दिनः परित्यागात् तस्यान द्वैतित्वं सिद्धम् । तर्हि सितासितग्रन्थकारकोटौ तस्य निवेशः कथमिति चेत् काऽनुपपत्तिः । सितग्रन्थकार: आचार्य श्रीवत्साङ्कश्च। अन्ये असितग्रन्थकाराः । एवं प्रामाणिकार्यावबोधकानां अन्यादृशानां च विविधानां निबन्धनानां समं लोके प्रचारात् मृदुप्रज्ञाः सदसद्विवचना- क्षमाः तत्त्वनिर्णयं प्रति वञ्चितबुद्धयो भवन्ति । न यथावत्प्रतिपद्यन्ते, अन्यथा च प्रतिपद्यन्ते । अतः आचार्यटङ्कमिडाचार्यश्रीवत्साङ्कमित्र- ग्रन्थप्रतिपाद्यार्थानुसारी श्रीमन्ना यमुनिप्रणांत व्यायतत्त्वसम्बन्धी प्रक रणग्रन्थः प्रणीयत इति ह्यत्र भगवद्यामुनमुनिराह| आदरणीयत्त्वव्य- ञ्जनायैव हि टङ्कस्य विशेषणमःचार्येति । न हीदमुत्तरत्रान्वेति । असित- ग्रन्थकारेषु बहुमानतात्पर्यायागात् । श्रीवत्लाङ्कत्रढमानस्य पूर्वमेव प्रकाशि- तत्वेन कंवलनाममात्रग्रहणात् । कालक्रमानुरोधेन निर्देशकरणात् श्री- वत्साङ्कस्य टङ्कानन्तरमकीर्तनात् । तत्र दौर्जन्यप्रकाशनस्य अणुरप्य- वकाशो नास्तीति मन्तव्यम् । १७. श्रीवत्साङ्कौ नद्रौ । एक एव तु सः । इति वस्तुतत्त्वस्थितः सितासितवाक्ये श्रीवत्साङ्कस्थाने श्रीकण्ठोत्प्रेक्षणमाकाशचित्रं भवति । . १८. शिवाकमणिदीपिका सहितश्रीकण्ठभाष्यप्रकाशकः हालास्यनाथ- शास्त्री शङ्कराचार्यादपि प्राचीनः कण्ठ इत्याह । अयं तु शास्त्रो तदनिच्छन् "भास्करादपि प्राचीनः श्रीकण्ठः इति वदन आशामोद- केन तृप्यति । तत्र प्रमाणं दर्शयति - अन्तर उपपत्तेरित्यधिकरणे 'सुख- विशिष्टाभिधानादेव च' इति सूत्रविवरणावसरे भास्कराचार्यभाष्यम्- 'अत्रावसरे अत एव तद्ब्रह्मेति सूत्रमन्ये पठन्ति ।' इति । इदं सूत्रं