पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ किन्तु तिसिद्धिः चतुर्थः नानन्दानुभवो मोक्षो न तस्य पुरुपार्थता । इति वेदान्तचिन्तायाः श्लाध्यः खलु फलोदयः ॥ मोक्षो न सिध्यति न तस्य पुमर्थभावो मुक्तो न सिव्यांत न तस्य सुखोपलम्भः | अद्वैतवमन यतस्तदत्तस्त्यजन्तः सम्यञ्चमाश्रयन कञ्चन वेदमार्गम् || ५. जीवन्मुक्तिः । अथ यज्जीवन्मुतिरिति काञ्चिदवस्थामङ्गीकृत्य तत्समर्थनाय यथाशीलं बह्वीः कुकल्पनाः कुर्वन्ति तत्र ब्रूमः ! जीवन्मुक्तो नाम तत्त्व- ज्ञानेन निवृत्ताविद्योऽप्यनुवृत्तदेहादिप्रतिभास इति वदन्ति । भ्रमस्थले यथार्थज्ञानोत्पत्त्यनन्तरं भ्रमविषयप्रतिभासो नानुवर्तते । न हि शुक्ति प्रत्यक्षप्रमानन्तरं रजतप्रतीत्यनुवृत्तिदृष्टा । प्रबुद्धस्य वा स्वाप्रार्थप्रति- भासानुवृत्तिः । एवं यदि भ्रमसिद्धः प्रपञ्चः तहिं तत्त्वज्ञाने जाते पुनः प्रपञ्चप्रतिभासो नैव भवितुमर्हति । अयं भवति, तर्हि तत्त्वज्ञानं नोत्प- त्रमिति निश्चेतव्यम् । कुतस्तु खलुत्पन्नतत्त्वज्ञानस्य अत एव निरस्ता- विद्यस्य भ्रमसिद्धरज्जुसर्पादिनुचदेश दिप्रतिभासानुवृत्तिः | तत्त्वज्ञाना- धीनाज्ञाननिरनपि देहानुवृत्तिदर्शनात् नाविद्यासिद्धं देहादिक- मिति तु प्रत्येतत्र्यम् | अभिनिविष्टैस्तु उत्तरोत्तरं अयुक्तमेव बहूच्यते । तथा हि । “निवृत्तसर्पभ्रमस्यापि संस्कारान् भयकम्पानुवृत्तिवत दण्डसंयोगनाशेऽपि चक्रभ्रमणवच्च संस्कारानुवृत्तेर विद्यानिवृत्त पि तत्कार्यानुवृत्तिसम्भवात्”, इति यदुक्तं तत्र दृष्टान्तोऽत्यम्तविषमः | सर्पभ्रमजनितं भयकम्पादि न हि सर्पबद् भ्रमसिद्धम् । सर्पभ्रमेण सत्येन कारणेन सत्यमेव भयाद्युत्पन्नम् | तत्संस्कारस्य सत्यस्य नुवृत्तौ तत्कार्यमपि युक्तं यदनुवर्तते । भ्रमविषयसर्पप्रतीतिस्तु पुनर्नैव भवति ।