पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः शाब्दापरोक्षम् २७८ श्रवणसमाप्तिह्येषा। ततः परं मनन निदिध्यासनयोवृत्तयोः खलु साक्षा- त्कारोदयः । श्वेतकेतुः पञ्चालानां समितिमियायेति कथा पञ्चमप्रपाठके कविता | तत्र 'अननुशिष्य वाव किल मा भगवानत्रवीत् अनुवरिपमिति' इत्य- नेन पितुः सकाशात् सद्विद्यालामानन्तरमेव तस्य तत्र गमनमति स्पष्टमेतत् । न च पितुरुपदेशवाक्यैरेव तस्य साक्षात्कारे उत्पन्ने पश्चात् सभागमनमुपपद्यत । मुक्तत्वान् | जीवन्मुक्तावपि राजसभागमनशांकादे- रयोगात् । यत्तु 'तमसः पारं दर्शयति' इति सप्तमप्रपाठकान्ते उक्तेः तत्समानार्थ- त्वायात्र विज्ञानं दर्शनं अपरादज्ञानमित्याश्रय समुचितमिति, तन्न | प्रथमश्रतविज्ञानानुरोधेन तत्राप्यंतदेव विवक्षितमित्यवधारणात् । विशद- ज्ञाने दर्शनत्वांपचारात् । उक्तरीत्या मनननिदिध्यासने विना उपदेशान- तरमेव साक्षात्क रायांगाच्च । यथा कालान्तरे साक्षात्कारी भवेत् तथा तदनुकूलं उपदेशरूपं प्रयोजकत्र्यापारं सनत्कुमारः करोतात्यर्थसम्भ- वाच्च । न ह्यु प्रदेशादेवेदं दर्शनमिति वक्ता कश्चन शब्दोऽस्ति । अपे- ज्ञितकर्मकारकपरं तदं पञ्चम्यन्ततया योजयित्वा आत्मानमति कर्माध्याहृत्य च पूर्व श्रुतहानाश्रुतकल्पने अविठाद् दुर्व्याख्यातं श्रुतिवाक्यम् । अत्र तु तथा हठयोजनायापि पदं किचिन्नास्ति | प्रयोजक- कर्तृव्यापारवःची णिजस्तीति चेन्न | तस्य परम्परासाधारण्यान् । पर्जन्यो जीवयति, कार षोऽग्निरध्यापयतीति दर्शनात् । न च साक्षात्सम्भवे परस्पराश्रयणमन्याय्यीभीत वाच्यम् | सम्भवाभावात् | शाब्दापरोक्षस्य लाक्ऽप्रसिद्धत्वान्। दर्शनशब्दस्य हि चाक्षुषसाक्षात्कारी मुख्याऽर्थः । तस्येहासम्भवादथांन्तरं लक्षणीयम् । तच्चार्थान्तरं यत्प्रसिद्धं तदेव भवितुमर्हति । न त्वसिद्धम् | मुख्यासम्बन्धाभावात् । प्रसिद्धं चार्था- न्तरं साक्षा दुपदेशजन्यं विशदज्ञानं वा मननादिपरम्परा जन्यसाक्षा-