पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ विशिष्टाद्वैतसिद्धिः तृतीयः रणस्य निर्विधातत्वाच्च | यच्च सन्निधानसह्कृतं लिङ्गं प्रबलं श्रवणस्य दर्शनान्चगनियामकमिति तच्च न | सन्निधानाप्रयोजकत्वस्योक्तत्वात् । प्रकरणाद् दुर्बलं हि तत् । लिङ्गम्याध्यभावाच्च । न हि श्रवणस्य अप- रोक्षज्ञानजनने सामर्थ्यमस्ति । शाब्दबोधात्म कपरोक्षज्ञानमात्रोपयोगि त्वात् । न हि श्रवण ववृततात्पर्य कान् शब्दात् सद्य एवात्मविषयकमपगे- क्षज्ञानं जायते । जायते च इष्टं च भवतां आत्मविषयकं परोक्षज्ञानं श्रवण- समनन्तरम् | न चास्मिन् तत्त्वज्ञाने प्रथममुपयुक्तस्य श्रवणस्य मनननि- दिध्यासनानन्तरभाविनि साक्षात्कारे दृष्टविया कश्चिदुपयोगोऽस्ति, यदर्थं ध्रुव ापेक्षा तद्विधिश्च स्वाताम् | अदृष्टविधयोपयोगे चापूर्वविधिः स्यात् । तत्र नियमविधित्वः भ्युपगमविरोधः । तथा च श्रवणस्य साक्षा- स्कारजननः सामर्थ्यात्, साक्षात्कारस्य मनननिदिध्या मनात्मकद्वारं विना साक्षात् श्रवणाधीनी नकार स्वीकारासामर्थ्याच्च न लिङ्गमस्तीलि सिद्धम् । अतः ‘“सन्निधानसहकृतं लिङ्ग प्रबलम् । तेन च श्रवणं दर्शना- न्वयि” इति रिक्तं वचः । यत्तु निद्व्यिासनजनितः साक्षात्कारः विरहिकामिनीसाक्षात्कारवद्- प्रमा स्यादिति, तत्परिहृतं विषयात्राधादिति । अथ यत् नच मूलप्रमाणदाढर्थात् प्रमात्वम् | तर्हि तदेव साक्षात् कारण- मस्तु । किं तदुपजोविनाऽन्चेन ? इति शङ्कामुत्थाप्य समाधानमुक्तं, तत् परिहास्यम् | आध्मातोऽग्निर्दाहक इत्युक्ते यदि कश्चिद् ब्रूयात् 'तर्हि आध्मानमेव दाहकमस्तु । किं तदुपजी- विनाऽन्येनेति', तत्तुल्यं हि एतत् । आत्मसाक्षात्कारी मोक्षसाधनमित्येतदभ्युपेत्य एतावदुक्तम् । तदेव तु नास्तीति ब्रूमः | प्रमाणाभावात् । अपरोक्षभ्रमः परोक्षज्ञानेन न निव- र्त्तते । अतस्तदुर्थापत्त्या तस्य तत्साधनत्वमिति ह्युच्यते । देहात्मभ्रमः प्रत्यक्ष भ्रम एव । तस्य बाधः अनुमानेन शास्त्रजन्यज्ञानेन यद् भवति