पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः श्रवणादि २६१ ज्ञानरूपत्वात् तत्र च पूर्ववाक्ये श्रवणस्य साधनत्वेन विहितत्वात् साधनाकाक्षायाः शान्तत्वात् तत्साधनश्रवणस्यैवांद्देश्यत्वं वायमिति तदङ्गवसिद्धिरिति शङ्कयम् | आत्मप्राप्तेरुद्देश्यत्वे सर्वत्र समाने प्रथम- श्रुतश्रव एमात्रेण साधनाकांक्षानिवृत्तेरयोगात् । न हि आग्नेययागविधान- मात्रेण अपूर्वसाधनाकांक्षा निवृत्तति कृत्वा उपांशुयाजः देस्तदङ्गत्वं युक्तं वक्तुम् । नापि समिद्यागमात्रेण प्रधानेतिकर्तव्यताकांक्षा निवृत्तति कृत्वा इडादेतदङ्गत्वम् | यदुक्तं -“शब्दशक्तिताहर्यावधारणं ताबद्विचारः । अवभृततात्पर्य - कश्च शब्दः करणमिति विचारस्य करणकोटिप्रवेशेन इतिकर्तव्यता- त्वाभावादङ्गित्वनिर्णयः" इत, तदसतू | मननस्याप्येवं करणकोटि- प्रवेशान्त्या अङ्गित्वस्यैत्राभ्युपगन्तव्यत्न अङ्गत्वभङ्गप्रसङ्गान् | मनना- भावे श्रवणाबधृतम्य तालर्यस्याप्रतिष्ठनात् मननस्यापि तात्पर्यावधारण ऐवोयोगान् । किञ्च किन्नाम करणकोटिप्रविष्टत्वम् ? किं करणत्वमेव, यद्वा करणताबच्छेदकत्वं, अथवा सन्नित्योपकारकाङ्गत्वमात्रम् | नाद्यः । शब्दमात्रस्थ करणत्वान | तालर्यज्ञानस्व पृथक कारणत्वात् । पृथग- न्वयञ्यतिरंकव्यांतरेकवत्त्वात् । चेष्टाप्रकरणः दिभिः तात्पर्यज्ञानस्य जातत्वेऽनि प्रमादादिना शब्दान्तरांच्चारणे विवक्षितबोधाभावात् । समीचीनशब्दप्रयोगे सत्यनि तात्पर्याग्रहं वोधाभावात् । न चैतावता अवधृततात्पर्यकः शब्दः करणमिति तात्पर्यमन्तर्भाव्य करणत्वं सुव- चम् । न हि आलोकबिशिष्टस्य चक्षुषः प्रत्यक्षं प्रति, समिद्धस्याग्नेर्दाहं प्रति, उद्यमननिपातनांवशिष्टस्य कुठारस्य छिदां प्रति करणत्वं केन- चिदभ्युपगम्यते। आकांक्षादिकमनि करणकोटिप्रविष्ट नैव कैश्चिदगी- क्रियते । आकांक्षामित्पदकदम्बकं शाब्दकारणमिति व्यवहारः प्रमा- स्थले वस्तुतः पदानि दन्त भवन्तीत्यभिप्रायेण क्रियते । न त्वकाक्षादेरवि करणत्वाभिप्रायेण |