पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः द्वितीयः ऽबच्छेदकबुद्धेश्च ऐक्ये अर्वाच्छन्ने भेदस्य वक्तुमशक्यत्वात्” इति तदप्यसाधु । चिचिद्ग्रन्थिहिं जावः । तत्र जायमानो भोगः चिति वर्तते न वा । आद्ये भोगसङ्करप्रसङ्गः । आत्मनः अच्छेद्यत्वेन सर्वत्र एकत्वात् । एवं च कर्तृ व्यतिरिक्तानामकृताभ्यागमप्रसङ्गः । अन्त्ये ऋतुरांप भोगो न स्यान् | चेतनावृत्तित्वात् । न खलु स्वावृत्ति सुखं वा दुःखं वा चेतनोऽनुभवतुमलम् । एवं सति कृतहानिप्रसङ्ग इति । नन्व- हङ्कार एव करोति, अहङ्कार एव भुङ्क्ते । यो यत् करोति स एव तद् भुंक्ते । स तद् भुंक्त एव । तत्र नास्ति कृतहान्यादिप्रसङ्ग इति चेन् तर्हि चिद शाघटितः अचेतन एव केवलो जीव इति स्यात् । तत्र कस्य ऐक्यं बोध्यते । नाचेतनस्य | वित् । न चेतनस्य | तस्य जीवत्वा- । भावात् । २५६ अथैवं जीवस्यागुत्त्रे सति ' स चानन्त्याय कल्पते' इत्येतद्विरुध्यत इति चेनू कामं विरुध्यते । भवतो यथा 'जीवो भागः स विज्ञेयः' इत्येतद् विरुष्यते तथा । कथं परिहार इति चेत् स्वरूपतोऽगुरपि मुक्तौ ज्ञान- सङ्कोचनिवृत्त्या परिपूर्णविकासेन च धर्मभूतज्ञानद्वारा विभुभवनयोग्यता: वानित्यर्थ इति न विरोध इति । न च गुणिनोऽणुत्वे गुणः कथं सर्वत्र प्रसरेदिति वाच्यम् | दीपप्रभावत् पराश्रितत्वनियमेन ज्ञानस्य धर्मत्वेऽपि रूपादिवद् गुणत्वाभावात् । प्रभावदेव द्रव्यत्वात् । सङ्कोचविकासरूपाव- स्थावत्त्वेन द्रव्यलक्षरणयोगात् || "बुद्धेगु गानात्मगुणेन चैव ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः ।" इत्यत्र आराममात्रत्वस्य बुद्धिगुहेनुकत्वोक्तेः स्वाभाविक विभु त्वमुक्तं भवतीयप न युक्तम् । बुद्धेगुणेन आरामात्रः । उपाधिभेदेन तत्तत्परिमाण इत्यर्थः । आत्मगुणेन च अवरोऽपि । स्वाभाविकेन