पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः द्वितीयः ब्रह्मविशेषणत्वमाक्षिप्यते । तेन कारणं कार्यं च सर्वं व्यात्मकम् | 'द्वासु- पर्णा समानं वृक्षम्' इांत कार्यस्य यात्मकत्वं स्पष्टमुक्तम् । सर्वस्यापि कार्यस्य ब्रह्मणि लयवचनात् सृष्टिवचनाच्च कारणस्यापि तथात्वं ज्ञायते । एवं सति प्रपञ्चोपादानस्य अविद्यात्वं वा प्रपञ्चस्य मिथ्यात्व वा जीवेशयोरभेदो वा केनोच्यते, किमर्थमाश्रीयते । विशिष्टयोः कार्यकारण- योरभेद्स्यैव कारणवाक्येषु सर्वेषु प्रमितत्वात् । विशेष्यस्य ब्रह्मणः विशेषणस्य तदितरस्य चाभेदस्य क्वाप्यप्रतीतेः । तस्मादेऋविज्ञानेन सर्वविज्ञान प्रतिज्ञया अभेदो नैवाक्षिप्यत इत्येतदनुरोधेन वाक्यान्तरा- णामभेदपरत्वाश्रयणं वन्ध्यापुत्र महाराजप्रीतये वन्दिभिस्तदीयस्तुति- शिक्षणकल्पमिति ध्येयम् । द्वितीयाद्वै भयं भवतीनि भेदस्य भयहेतुत्वेन निन्दितत्वादभेद एवो- पनिषद्गम्य इत्येतद्प्युपहास्यम् । तस्मादेकाकी विभेतीत्येकत्वस्यापि निन्दुितत्वात् । न च परमार्थदर्शनरहितस्य तन्निमित्तभयसम्भवात् एकाकी विभेतीत्युक्तःमिति वाच्यम् । परमार्थदर्शन रहितस्य एकात्विा- भावेन एवं निर्देशानुपपत्तेः । विशालप्रपञ्चमध्ये वर्तमानो हि सः । स कथमेकाकी भवेत् । भवद्रीत्या एकाकिनः परमाथं दर्शनराहित्यं तन्मूलकं भयं च न घटते। यस्यैतद् द्वयं तस्यैकाकित्वं भवदुभिमतं न घटते । तथा च व्याहतार्थमिदं वाक्यं भवेत् । २४६ किव्व एकाकी बिभेतीति एकात्विनिमित्तकमेव भयमुच्यते । मलिनः स्नातीति मालियनमित्तकस्नानवत् | तेनोपस्थितं परित्यज्यानु- पस्थितहेत्वन्तरकल्पनमयुक्तम् । किञ्च तस्मादेकाकी बिभेतीति वर्तमाना- पदेश।ऽयं लोकसिद्धानुवादः । अन्तमसे अरण्ये वा असहायो गच्छन् हि बिभेति । तदिदमिहोच्यते । तत्र परमार्थ दर्शना भावनिमित्तकस्य भयस्य कः प्रसङ्गः । नन्वस्मद्भिमतमेवेदं भवता प्रत्यपादि । एवमेका कित्वनिमित्तकं