पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प'रच्छेदः अभेदप्रमाणम् २४३ मुख्यत इति तावत् स्पष्टम् । अयं भेदः काल्पनिक इत्यत्र किमपि प्रमाणं नास्ति । अतो मुक्तावप्यनुवर्तत एव । तस्मान्महिमानमित्यस्य पश्यतीत्यत्रान्वयेऽपि भेदप्रतीतिरविहतैष । परन्तु एवमन्वये इतिशब्द- वैयर्थ्यं क्रियाध्याहारश्च दोष इति पश्यन्तः केचित् 'यदाऽन्यनीशं पश्यति तदा वीतशोकः अस्य ईशस्य महिमानं इति एति, गच्छति । इतीति इण्धातोर्लंटि गुणाभावे छान्दसं रूपम् । 'इतः' इति द्विवचन- वत् ।' इत्याहुः । एतदनुसारेण मुक्तौ तत्साम्यमेव न तु तद्भाव इति कण्ठोक्तं भवति । 'यथा नद्यः स्यन्दुमानाः' इति दृष्टान्तोऽभेदवादिनामनुपपन्न एव । अन्यथा न्यनमयुक्तमित्युत्तत्वात् । 'परात्परं पुरुषमुपैति दिव्यं' इति देशान्तरस्थब्रह्मत्राभिरूपमुक्तचभिधानाच्च अभेदपक्षी न घटते | दिवि श्रीवैकुण्ठे भवं दिव्यम् । यत्तु एवंविधाया मुक्तेः सगुणोपासनाफलत्वेन ब्रह्मवियाफलत्वासम्भवात् स्वरूप भूतब्रह्मप्राप्तिपरमिदं वाक्यमिति, तेन चत प्रक्रियामनुसृत्य इदं वाक्यमन्यथा नेत्रमित्येवोक्तं भवति । न हि सगुणोपासनातिरिक्ता ब्रह्मविद्याऽद्यापि सिद्धा । निर्गुणस्यासिद्धत्वात् । प्रपञ्चमिथ्यात्वस्यासिद्धत्वान् | कस्यापि वाक्यस्यभेदपरत्वस्यासिद्ध- त्वात् | “तथा विद्वान नामरूपाद्विमुक्तः परालरं पुरुषमुपैति दिव्यम्” इत्यस्मिन् वाक्ये नामरूपादिति प्रकृतिरुक्ता । विद्वानिति जीवः । परा- त्परं पुरुषमिति ब्रह्म । प्रधानालरो जीवः । तस्मादपि परः पुरुषः । तं अनुत्तमे उत्तमे लोके स्थितं प्रकृतिविनिमु का जीवां गच्छति, यथा पर्वतान्निस्सृत्य स्यन्दमानाः प्रवहन्त्यः सरितः समुद्रं गच्छन्ति, तथा । द्वा सुपर्णेत्यादिमन्त्रद्वये च वृक्ष इति अनीशयेति च प्रकृतिरुक्ता । द्वेति अन्य इति च जीवेशी परस्पर विक्षगौ पृथगुतौ । त एव त्रयः पुन- रिहोच्यन्ते | स्यन्दमाना इति दृष्टान्ते, उपैति दिव्यमति दृष्टांन्तिके च गमनं स्पष्टमुच्यते । तथा चास्वारस्थलेशमपि विना मन्त्रैः स्वस्वार्थे