पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ विशिष्टाद्वैतसिद्धिः द्वितीयः परं प्रति एवं विकल्पानुपपत्तेः । न हि उपहितं चैतन्यं जीव इति परस्य मतम् | स्वमतानुसारेणायं विकल्प इति चेन्न । पराभिमतत्वेन स्वमत- सिद्धस्वार्थस्य विकल्पनाचोगान् | परोऽपि स्वमतसिद्धमर्थ अस्मान् प्रति प्रयुज्यमाने प्रयोगे पक्षीकर्तुं नार्हतीति चेत् सत्यम् । अत एव उभय- साधारणाकारः पक्षां ग्राह्यः । चैत्रशदीरावच्छिन्नो भोक्ता हि कश्चिदुभय- पक्षसिद्धः | तस्य मैत्र शरीरावच्छिन्नभोक्तृभेदे सिद्धे अनुपहितमेव जीवस्वरूपमित सिद्धयति । सिद्धेतु उपहितं चैतन्यमति भवन्मतं स्त्रास्त्रांत । तदेतदनुमानपर्यवसानफलम् | ततः पूर्वं तु साधारणमात्रा- कारः पक्षः प्रतिपत्तव्य इति तस्यैवं स्वमतानुसारेण विकल्पय दूषणं पर- दूषणशीलतामात्रं प्रकाशयति । न वादकुशलताम् । अथ यत् साधनैक- देशस्थाननुसन्धानादेरुनाधित्वमिति, तत्रोच्यते । चैत्रः मैत्राभिन्नः अनु- सन्धातृत्वात् इति उपाध्यभावेन साध्याभाव साधने अन्वयदृष्टान्तस्त वन्नास्ति । अतो व्यतिरेकदृष्टान्तो वाच्यः यत्र यत्र मैत्रभेदः तत्र तत्र अननुसन्धानम्. यथा घट इति । तत्र जडत्वमुपाधिरिति उपाधेः सोपाधि- ऋत्वान्नानुमानदूषकत्वम् । किञ्बात्र उधेः साध्यव्यापस्त्वमेव नास्ति । यत्रोपाध्यभावः तत्र साध्याभाव इति व्यतिरेकत्र्यांपतेरसिद्धेः । अस्ति ह्यनुसन्धानं यज्ञद्त्ता- दिषु । न च तत्र मैत्राभेदः सिद्धः । भ्रान्तोऽसि । मन्मते स सिद्ध एवेति साविक्षेपा ब्रह्मानन्दोक्तिर्विस्मयावहा | परकीयानुमानदूषणाय हि उपाविरयमुद्भावितः । तत्र अभेदनिरसनायैव परेण प्रयुक्ते अनुमाने स्वसम्मताभेदमुपजीव्यैव दूषणाभिधानं कथं युज्यते । विप्रतिमाया सन्दिग्धो ह्यभेद इति । यदध्यत्र तेनैव हेतुदूषणं कृतं 'शरीरजन्येत्पत्र शरीरम्येव मैत्रानुसंहितेत्यस्य वैय' इति तदध्ययुक्तम् । अधिक- विशेषणे सत्यव्याप्तेर नपायत् । न हि पर्वतो वह्निमान् वह्निजन्य- धूमवत्त्वात् इत्युक्ते अनुमितिनं भवेत् । तदिदं पूर्वमेवोक्तम् । तदेवं