पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः भेदः २१३ सइयानिति ब्रह्मानन्द ईदृश इति तद्ग्रहगदिशं काञ्चित् प्रदर्श्य ईदृश इति च वाचा वक्तुं मनसा चिन्तयितुं चाशक्य इत्युच्यते । चाङ्मनसापरिच्छेद्यो ब्रह्मानन्द इत्युक्तं भवति । तत्र का प्रसक्तिः पद- पदार्थयोर्बाच्यवाचकभावस्थ यो निषेद्धमिध्येन | आनन्दं ब्रह्मणो विद्वा- निति ब्रह्म तत्रापि अभिदधात्येव श्रुतिः । एवं द्वितीयस्थलेऽपि आकाशा- दिपञ्चभूनगुगानन्वयप्रतिपादनवरत्वात् वाच्यत्व सम्बन्धेन शब्दराहित्यस्य नैवोपस्थितिरस्ति । पुरुषविष्यवादिपदैः परत्रह्माभिधान न करणे तथाऽर्या- भिधानं बावितमित्यव्यवधेयम् । ततश्च समवाय सम्बन्धेनेव वाच्यतास- म्बन्धेनापि शब्दराहित्यमथं इति परास्तम् । अन्यथा लक्ष्यतासम्बन्धे- नापि तद्राहित्यमर्थः स्यात् । यद्वा लक्षऋशब्दराहित्यमेवाक्तं स्यात् । सर्वेषां शब्दानां मुख्यवृत्त्या ब्रह्मवाचित्वात् । यत्रोक्तमस्मद्भाष्ये चरा- चरव्य राश्रय सूत्रे – “तव्यपदेशः चराचरवाचिशब्दः ब्रह्मण्यमाक्तः मुख्य एव | कुनः ब्रह्मभावभावित्वात् सर्वशब्दनां वाचकभावस्य ।" इति - सर्वशास्य ब्रह्मणो ये न वाच्यताम् । मृध्यन्ति तेऽभिगच्छन्ति सर्वतोवस्य वाच्यताम् ॥ ८. भेदः । अभेदनिराकरणे सरम्भं दर्शयति । कस्मै प्रयोजनायेदं कल्पत इति तु न विद्मः । यदि हि प्रमाणबलात् विश्वमध्यात्वं जीवब्रह्मैक्यं च. सिद्धयेत् तावता अद्वैतं सिद्धय देव । किं विशिष्य भेदनिराकरणेन । व्यावहारिकं भेदं न निराकुर्म इति स्वयमेव वदति । तात्त्विकस्तु भेदो व्यावहारिकाणां वस्तूनां परस्परं न सम्भवति । मिथ्याभूतेऽर्थे तात्त्वि- कार्थासमवायात् । तेभ्यो ब्रह्मणि तु सम्भवति । परन्तु किमर्थं स निषि- श्यते । अद्वैतसिद्धचर्थमिति चेन्न | भावाद्वैतपक्षे भेदस्य स्वरूप तिरेकेऽपि दोषविरहात् | पक्षान्तरेऽपि स्वरूपानतिरेकाभ्युपगमेनोपपत्तेः । नित्यत्व-