पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० विशिष्टाद्वैत सिद्धिः द्वितीयः पाद्यत इतीदमपत्र्याख्यानमिति सुगमम् । न हि शुद्धचैतन्यस्य ईक्षणकर्तृत्वं तेजआदिस्रष्टत्वं वा उपर्युच्यमानमुपपद्यते । अतः दहर उत्तरेभ्य इति न्यायेन उपरि प्रतिपादितेक्षणसृष्टिकर्तृत्वाद्यनुरोधेन विभागानति- सूक्ष्मचिचिद्विशिष्टं देव आसीन | तच्च अविभक्तनामरूपतया अब हुत्व।देऋमेबासीन् । उपादानभूत स्वातिरिक्तनिमित्तकारणविरहात अद्वि- तीयमासीदिति व्याख्येयम् । अत एव हि भवद्भिरपि परणामनादित्व- मिष्यते - जीवेशां शुद्धचैतन्यं तथा जीवेशयोर्मिंदा । अविद्या तच्चितां र्योगः षडस्माक्रमनादयः ॥ इति । एषु शुद्धचैतन्ये न किञ्चन प्रमाण- मस्ति । मिथो भिन्नौ जीवेशो प्रमाणसिद्धो । अयोर्भेदस्य च मिथ्यात्व मप्रामाणिकम् । अविद्या त्रिगुणप्रधानात्मिका प्रमार्गासद्धा । न तु भाव- रूपाज्ञानात्मिका । अत एव तञ्चितोर्योगी नास्ति | जडवस्तूपादानत्वेन प्रधानस्यैव ब्रह्मविशेषग तयाऽऽक्षिप्तत्वात् । - - तदेवं श्रूयमाणसृष्ट्याद्यनुपपत्त्या सच्छब्दवाच्यत्रह्मविशेषतया चेतनाचेतनवस्तुनोराक्षेपात् तद्विरुद्धमद्वैतं न तत्र प्रतिपत्त्यहम् । नतरां जीवेशभेदादेर्मिथ्यात्वम् । एकमेवाद्वितीयमित्यस्य सर्वभेदांनषेधकत्वं सिद्धे हि तदनुरोधेन उपरिश्रयमाणं ईक्षणकर्तृत्वादिकं अविद्याधीनं कल्पितमति ऋल्प्येत । तत्तु नास्ति । पूर्वापरपरामृष्टः शब्दोऽन्यां कुरुते मतिम्' इति न्यःयेन तावन्मात्रेण प्रतायमानस्यार्थल्य अन्यथा- त्वावश्यम्भावात्। तदैक्षतेत्यायु रिश्रयमाणानुरोधिन एवार्थस्य प्रामा- णि.कैःस्वीक्र्तव्यत्वात् । श्रूयमारस्य चेक्षणकर्तृत्वादेः कल्पितत्वे प्रमाण- शस्यापि विरहात् पारमार्थिक मेवेदम् । अतएव तदाक्षिप्तं सार्वज्ञ्यं सूक्ष्म चेतनाचेतनवस्तुविशिष्टत्वमित्यादिकर्माप पारमाथकमेव । एवं च विशिष्टमेव कारणं कार्यं च । तत्र कार्ये अचिदंशं प्रति चेतनांश एव, ईश्वरांशं प्रति ईश्वरांश एव च कारणम् । न तु कार्ये विशेषणांशं प्रति- कारणे विशेष्यांश ईश्वरः कारणम् । अतो न कोऽपि दोषः । ।