पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ विशिष्टाद्वैतसिद्धिः द्वितीयः उपास्यस्य ब्रह्मत्वं निषिद्धमिति तदुपनिषदर्थस्य यथावद्ग्रहणाशक्ति- विजृम्भितम् । कार्येन ब्रह्मज्ञानमिच्छतः शिष्यस्य तमभिनिवेशं उप- शमय्य "वागादीनि अस्मदीयानि ज्ञानेन्द्रियाणि कृत्स्नब्रह्मावबोधना- क्षमाणि । कास्ये॑न ज्ञातुमशक्यमित्येव ब्रह्म अस्माभिज्ञेयम् ।" इत्या- चार्य उपदिदेशेति उपनिषदियमाह् । “यस्यामतं तस्य मतं मतं यस्य न वेद् सः । अविज्ञातं विज्ञानतां विज्ञातमवजानताम् ॥” इत्युपरितनेन मन्त्रेणेदं स्पष्टम | अन्यदेव तद् विदितादित्यस्यायमर्थः । घटपटादिकं प्रत्यक्षदृष्टं यथाऽस्माकं सुविदितं तथा ब्रह्म न विदितम् । तो विदितादन्यत् | यथा अत्यन्ताद्वस्तु सर्वात्मना अविदितं तथा तविदितं न भवति । वेदेन आचार्योपदेशेन च ज्ञायमानत्वात् । अतः अबिदितादन्यत् । अयमर्थ: 'नाहं मन्ये सुवेदेति नो न वेदेति वेद च इति मन्त्रान्तरेण स्पष्टमुक्तः | सुवेदेति अहं न मन्ये । न वेदेति च न मन्ये । अनेन प्रकारेगाहं तद्वंद च' इत्यस्यार्थः । एतेन स्वप्रकाशत्वप्रति- पादनपरोऽयं अन्यदेव तद्विदितादिति मन्त्रभाग इति निरस्तं वेदि- तव्यम् । इदमेव विव्रियते यद्वाचाऽनभ्युदितमित्यादिभिर्मन्त्रैः । यद् वागादिभिरिन्द्रियैः कृत्स्नतया प्रकाशयतुं न शक्यं, किञ्च यद् वागादी- नामधिष्ठातृ तदेव ब्रह्मेति त्वं जानीहि । यत् इदमिति परिच्छिन्नतया उपासते, परिपूर्ण ब्रह्म विदितमिति मन्यमाना मूढा उपासते, इदं ब्रह्मेति त्वं न विद्धि, इत्येषां मन्त्राणामर्थः । इन्द्रियाणि परिच्छिन्नवस्तुमात्र- ग्रहणक्षमाणि । वागादिस्वरूपस्थितिप्रवृत्तिकारणभूतं ब्रह्म तु सर्वपरिच्छे- दशून्यम् । अतस्तानि एतद्ग्रहणे न प्रभवन्ति । तस्मात् कारणभूतं अपरिच्छिन्नं ब्रह्म अस्माभिः कात्स्येंन ज्ञातुमशक्यमिति विद्धीत्युक्तं भवति । एवं सति गुराविशिष्टस्योपास्यस्य ब्रह्मत्वमत्र निषिद्धमिति वदन् कथमुपादेयवाक् भवेत् । न खल्वेषां मन्त्राणामयमर्थो भवति । नापि सङ्गति-