पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८३ विशिष्टाद्वैनसिद्धिः द्वितीयः तमानयेत्युक्ते पुत्रोऽप्यानेयो न वेति | वाक्यान्तरेण च तस्य परिहारः । एवमानयनक्रियां प्रति एपां विशेषणानां विशेषे सत्यपि आनयनाक्षिप्तं यत् तत्पूर्वभावि यज्ञानं तदुपयोगित्वे विशेषाभावात् सर्वेषामेषां तच्छब्दपरामृश्यत्वमस्त्येवेति । प्रकृते तु अपहृतपाप्मत्यादिवाक्ये अन्वेष्टव्यः, विजिज्ञासितव्यः, इनि ज्ञयत्वमेवांच्यते, न तु क्रियान्तरकर्मत्वम् । तत्र च भावाभावरू- पस्य सर्वस्य गुणस्य ज्ञेयत्वोपपत्तः वैषम्येन कश्चन हेतुरस्ति । न्नु उद्देश्यतावच्छेदकं विधेयान्वयो भवता नेष्यते । घटी नील इत्यत्र घटत्व- विशिष्टब'धेऽनि नीलत्वं विशेष्यमात्रान्वयीति वाक्यस्य यथाश्रुतार्थस्या- पपन्नत्वांपादनात् त्वाः सत्यकामत्वादेश्च तच्छन्देन परा- मर्शेऽपि उभयोः केवलमुद्दश्यतावच्छेदत्वात् कथमन्वेष्टव्यत्वादीति चेन्न | शब्दमयोदया तदलाभेऽनिस आत्मा कथं जिज्ञासितव्य इत्या- काङ्ङ्क्षायां एभिरेव गुणैर्विशिष्टतया जिज्ञासितत्र्य इत्युपस्थितिबलेनाव- धारणात् 'एनांच सत्यान् कामान्" इति विधिश्रवणाच्च । यस्त्वत्र अपहतपाप्मत्वादेः स्वरूपता, सत्यकामत्वादेस्तु स्वरूपबहि- र्भाव इति कश्चन विशेषः कल्पितः सः निनिंबन्धनः । उभयोर विशेषेण आत्मधर्मत्वश्रवरणात् । अभावस्याधिकरणात्मकत्वादिति चेत् भावरूप- • स्यापि धर्मस्य तत् कुतो नाङ्गीयते । अधिकरण:तिरिक्तः अभावो नाम कश्चन पदार्थो न प्रतीयते । भावरूपस्तु प्रतीयते । अतो विशेष इति चेन् तेन कथमधिकरणात्मकत्वम् । 'भावान्तरमभावाऽन्यो न कश्चिदनिरूप- पात्' इत्युक्तरीत्या तदद्धिकरणवृत्तिभावधर्मान्तरात्मकत्वस्यापि सुब चत्वेन अधिकरणात्मकत्वनियमासिद्धेः । तथा चाभावस्वरूपं किमात्मक- मिति विमर्शस्तावत् कामं भवितुमर्हति । तस्य धर्मिविशेषत्वं तु सर्व- सम्प्रतिपन्नम् | तेन स्वसमानाधिकरणधर्मान्तरस्येव वा पूर्वक्षर वृत्तित्वा- दिविशिष्टात् घटाद् घटस्येव वाऽस्त्राधिकरणात् तस्य भेदोऽपि सिद्धः । तु