पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः निगु त्वम् यथा रागप्राप्तहिंसां विषयं प्राप्य न हिंस्यादिति सामान्यनिषेधः सोमाङ्गतया विहितं पश्वालम्भं न विपर्याीकरोति तथा निर्गुण इत्य सामान्यनिषेधोऽपि उपासनार्थ तयाऽपि अपूर्वतया ब्रह्मणि विहितान् मङ्गलगुणान्न विषयीकरोति । किन्तु हेयगुणविषयतया पर्यवस्यतीति विभाव्यम् । “अपतपाप्मा विजरी विमृत्युविंशोको विजिघित्सो विपिपासः सत्यक्र।मः सत्यसङ्कल्प" इत्यविशेषेण श्रूयमाणे पूपानुमन्त्रण- मन्त्रन्यायेन सत्यसङ्कल्पत्वादेः प्रकरण दुत्कर्षः कर्तव्यो येन आप- तति, तं व्याख्यानमार्गं सचेतनः कोन्वाद्रियेत | यच्च “साक्ष्यादिपदै- ईष्टत्वादिगु विधानात् निगु णशब्देन गुणसामान्यनिषेधो न युक्तः” इत्येतत् प्रतिब्रुवता उक्तम्- - 'द्रष्टृत्वादावत्रापि न तात्र्यम् । गुणान् तटस्थीकृत्य तेषां ब्रह्म- परत्वेन गुणे तात्पर्याभावात् ।' १७६ ज्ञात, तत्र विपरीती हेतुः । तेषां ब्रह्मपरत्वेन तेषु तात्पर्यं हि वक्तव्यम् । न ह्यसद्धिगुणैः कथितैत्र णो यथावन् प्रतिपत्तिर्भवेत् । व्यामोहस्तु प्रचलो भवेत् । अन्यथा त्रीहिभिर्यजेतेत्यत्र त्रीहिषु तात्पर्यं न स्यात् । व्यागपरत्वादित्युतम् । ब्रह्मस्वरू ग्याथात्म्यावबोधनेन तस्मिन् जनानामनुरागविशेषं जनयितुं बर्धयितु' च अज्ञातपूर्वेषु अद्भुतेषु अनन्तेषु तदीयेषु गुणेषु शास्त्रैस्तत्परै- रुपदिश्यमानेषु कथं हि लोकोत्तरप्रज्ञन भवता तेषामतात्पर्य विषयत्वं अतात्त्विक्त्वं च अध्यवसीयते । 'एको देवः सर्वभूतेषु गूढः सर्वत्र्यापी सर्वभूतान्तरात्मा' इत्यादि पठतां हि व्युत्पन्नानां एवङ्गुणां भगवान् सर्वे- श्वरेश्वर इति स्वरसवाहिनी आनन्ददायिनी धीरुदेति । तद्भञ्ज ने को हेतुः ? निर्गुण इति श्रव मिति चेन् तर्हि 'असा इदम आसीत् इति श्रवणाद् ब्रह्मणोऽप्यभावः स्यात् । असदिति नामपदसमभित्र्याहृ तत्वेन नमो निषेत्रऋत्वं न सम्भवतीति चेन्न । निर्गुण इत्यत्र गुणनिषेधं ·