पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अखण्डार्थवादः स्यानपेक्षितत्वान्न लक्षणाया आवश्यकता अन्त्ये प्रष्टप्रकाशपदो- पादानस्य प्रकृतोपयोगाभावात् निष्फलत्वम् । न च उपयांगे सत्यपि विशिष्टे तात्पर्याभावात् एतदनुपपत्त्या स्वरूपमात्रे लक्षणाश्रयणमिति वाच्यम् । उपयुक्ततयोपात्तं तात्पर्याभावानुपपत्तेः । न हि घटेन जलमाहरे- त्युक्ते घटस्वरूपस्यैत्र क्रिया करणत्वयोग्यत्वेन तात्पर्यविषयत्वं, न तु घटत्वस्य । अतः घटस्वरूपे लक्षणेति युक्तम् । । न च प्रण्टुस्तत्र तात्पर्याभावात् प्रतिवऋतुरपि तदयागः । अनुपायस्य बोधनस्याशक्यत्वेन तत्र तत्तात्पर्यावश्यम्भावस्योक्तत्वात् । तत्तात्पर्याभा- वेपि प्रतिवक्तृतःसर्यस्याविरोधाच्च । न च प्रश्नोत्तरयोर्वैयधिकरण्यम् । ईदृशस्त्र वैयांधकरण्यस्य इष्टत्वात् । न हि आम्रान पृष्ट: कोविदारा- नाचष्टेऽयम् | पृष्टं स्वरूप मेवाचष्टे | तेनै कवियत्वं सिद्धम् । विशेषग तयाऽविकं व्यावर्तऋधर्ममप्याचष्टे | बुभुत्सितस्वरूपाख्यानोपयुक्तत्वात् । यथा " की नवस्मिन् साम्प्रतं लोके" इति पुरुषमात्र प्रश्ने सति इक्ष्वाकुवं- शप्रभवां रामा नाम इति तमुक्त्वा 'तपेवं गुणसंपन्नं रामं सत्यपराक्रम' इत्यारभ्य तच्चरितवरानेन उत्तरस्य न प्रश्न वैयधिकरण्यम् | नवा तस्य तात्यविषयत्वम | बुभुत्सितपुरुष महिमपर्यवसायित्वात् । यथा च अवरं भवतो जन्म इति जन्ममात्रविषये प्रश्ने सति तत्प्रयोजनादिकथनस्य न वैयधिकरण्यापादकत्वं तात्र्याविषयत्वं च | यथा च 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ।" इति ब्रह्मनात्रविषये प्रश्ने 'द्वे विद्ये वेदितव्यं ।' इति विद्याद्वयपरस्योत्तरस्य न काचिदनुपपत्तिः । यथैवं प्रकृष्टप्रकाशश्चन्द्रः' इत्यस्य लौकिकलक्ष गवाक्यस्य अख- एडार्थत्वं वा चन्द्रप्रातिपदिकार्थ मात्रनिष्त्वं वा न भवति तथैव 'सत्यं ज्ञानमनन्त ब्रह्म॑नि वैदिकलक्ष गवाक्यस्यापि अखण्डार्थत्वं वा ब्रह्मप्राति- पदिकार्थमात्रनिष्टत्वं वा न भवतीति ज्ञेयम् । तथा हि । ब्रह्मविदाप्नोत पर मिति परमपुरुषार्थसाधनतया ब्रह्मवेदनं विहितम् । तत्र योगरूढिभ्यां १६३