पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अखण्डार्थवादः १५५ मत्यन्तमनुपपत्रमिति सुगमम प्रथमं तावत् चन्द्रस्वरूपमात्रं जिज्ञास मानेन अतएव कश्चन्द्र इति पृच्छता कीदृशमुत्तरं परमुखात् प्रतीक्ष्यन इति पूर्वोत्तरीत्या विमर्शनीयम् । न हि व्यावर्तकधर्मोपादानं विना चन्द्रस्वरूपज्ञापनं परेण शक्यं कर्तुमिति अयं प्रप्टा मन्यने । न हि येन केनापि लोके कस्यचिद् वस्तुनः स्वरूपं तदसाधारणधर्मनिर्देश- मन्तरेण परस्मै बोधयितुं शक्यम् | इदं जानता प्रष्ट्रा चन्द्रस्वरूपमात्रं मे जिज्ञः सितं, न तु तत्र व्यावर्तक वैशिष्ट्यमिति नैव अभिसन्धिमता भवितुं शक्यम् | अज्ञानता तु मौठ्यकाष्ठां गतेन भवितव्यम् । तथा च तस्मै नैवोत्तरं ददीत वृद्धः । ददानो वा "चन्द्र एव चन्द्रः" इति ददीत | 'प्रकृष्ट प्रकाशश्चन्द्रः' इत्येतदुत्तरं ददानस्तु व्यावर्तकधर्म- बुभुत्सचैव प्रष्टा प्रश्नं करोतीति मन्यते । न चायं भ्रान्तः । प्रश्नस्या- अन्तिरासम्भवस्योक्तत्वात् । न च तहिं किल्लक्षणकश्चन्द्र इत्येव प्रश्नेन भाव्यम् | स्वाधीने शब्द प्रयोगे निष्प्रयोजनलाक्षणिक प्रयोगस्यान्यायत्वा- दिति वाच्यम् । उच्चारणलाघवस्य वाक्यसौन्दर्यादेशच प्रयोजनस्य सत्वात् | स्वरूपपरत्वेऽपि लक्षणाया अपरिहार्यत्वात् । तिष्ठन्तं त्यहि बहुलं प्रश्नं कुर्वन्नि वस्त्वमिति । न हि तत्र स्वरूविज्ञाला | न च स्वरूपं त्रिंशब्दवाच्यान्तभूत, येन तत्र लक्षण| न स्यात् । वुभुत्सि- तमात्राभिधायित्वात् । किंस्वरूप इत्यपि प्रयोगाच्च । अथ योऽयं प्रष्टुरनुभव उक्तः सोऽत्यन्तमसम्भावितः दृष्टान्तसिद्धये स्वयं कल्पितः। न हि चन्द्रत्वं तमानक्षत्रादिव्यावृत्तिं च चन्द्रे जानतः कत्यचित् तत्स्वरूपज्ञानमात्रं नास्तर्गत अस्ति सम्भवः । इदं तावद्भवाना- चष्टाम् - प्रकृष्टप्रकाशकृता व्यावृत्तिः प्रष्टुविंदिता न वा । आये तस्या अजिज्ञासितत्वात् उत्तरवाक्ये तत्पद्मनुपादेयमेव । अन्त्ये व्यावर्तक- व्यावृत्तिविशेष वैशिष्टयं तस्य जिज्ञासितमेवेत स्वरूपमात्रे तात्पर्या- सिद्धया नाखण्डार्थत्वम् ।