पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ विशिष्टाद्वैतसिद्धिः मङ्गीक्रियते न वा ? आद्ये सत्त्वादिरहितत्वाद व्यतिरेकदृष्टान्तत्वानुप- पत्तिः । न च सद्पस्य तस्य सत्त्वराहित्यं नास्तीति वाच्यम् । सत्त्व- वत्वे र्साविशेषत्वापत्तेः तद्भावस्यावश्यं वाच्यत्वात् । एतदविरोधेनैव । सद् पताया भवता उपपादनीयत्वात् । अशक्यत्त्रे अद्वैतस्य परित्याज्य- त्वात् । 'निर्धर्मके सत्त्वरूपधर्माभावविषयकप्रतीतेरिष्टत्वात्' इति भव- तैवोक्तत्वात् । अन्त्ये साध्याभावानधिकरणत्वेन दृष्टान्तत्वानुपपत्तिः । । 9 'विमतं रूप्यादि सञ्चेन्न वाध्येत, असञ्चेन्न प्रतीयेत । बाध्यते प्रती- यतेऽपि । तस्मात् सदसद्विलक्षणत्वादनिर्वचनीयम् ।' इत्यर्थापत्तिरपि न प्रमाणम् । रूप्यं शुक्तिदेशे सच्चेन्न बाध्येत । बाध्यते च । तस्मात् तत्र न सत् विद्यमानम् इत्यसत्त्वमस्माकमिष्टमेव । असञ्चेत् न प्रतीयेत, इति तु वावितम् । तत्र असत एव रजतस्य प्रतीतेः । असत् कथं प्रतीये- ·तेति चेत् काऽत्रानुपपत्तिः। अन्यत्र विद्यमानं वस्तु अन्यत्राविद्यमानमि विद्यमानमिव भाति । तथा दर्शनात् । न हि दृष्टेऽनुपपनं नाम । तथा च भ्रमेण तद्विषयस्य तत्र विद्यमानत्वरूपं सत्त्वं प्राप्तं बाधकज्ञानेन अपो- द्यते । तेन अत्राविद्यमानत्वरूपमसत्त्वं विषयस्य निश्चीयते । एवं सति ख्यातिबाधान्यथानुपपत्त्यानिर्वचनीयत्वं सिद्धयतीति कथमेतत् । उक्त- रीत्या तयोरन्यथैवोपपन्नत्वात् । विपयस्य सदसद्विलक्षणत्वरूपानिर्वाच्य- त्वाभ्युपगमेन परिहार्याया अनुपपत्तेः सर्वथा विरहात् । तदेवमद्वैतानुरा- गमात्रर्काल्पतेयमर्थापत्तिः न प्रमाणभूतेति विभाव्यम् । एतेन बाध्यत्वं सति असति चानुपपन्नमिति अनिर्वायमित्येतपि प्रत्युक्तम् । नास्तीति निषेत्रप्रतियोगित्वरूपं बाध्यत्वं सति न सम्भवति तुच्छापर पर्याय असत च अस्तित्वप्रसक्त्यभावात् नास्तीति निषेध- प्रतियोगित्वं कामं न सम्भवति । तावता निषेधप्रतियोगिनः शुक्तिरूप्य- • स्यानिषेचनीयत्वं नाम अपूर्वः कश्चन आकारः कथमास्थीयते ? ननु शुक्तिरूप्यस्य बाध्यवं तावदस्ति । तत् तस्य सद्विलक्षणत्वमसद्विलक्ष- प्रथमः