पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः कर्तृत्वाध्यासः ३६. कर्तृत्वाध्यासः एतेन कर्तृत्वाध्यासवादोऽनि निरस्तां भवति । अहं जानामीत्यचा- वितप्रत्ययेन ज्ञातृत्वस्येव अहं करोमीत्यनेन कर्तृत्वस्यापि अमर्यात्मधर्म- तया सिद्धेः । अनात्मनः कर्तृत्वानुपपत्तेश्च । यः प्रवृत्तिसमर्थः स हि कर्ता ! न च जडस्त्र प्रवृत्तिसामर्थ्यमस्ति | रथस्य स्वयं गमनाभावात् । अतएव हि रथी गच्छतीत्यत्र गमनाश्रयत्वमात्रं रथस्योच्यते, न तु देवदत्तो गच्छतीत्यत्रेव गमनानुकूत्तकृत्याश्रयत्वम् । कृतेः चेतनैकसमवा- यान् । ननु प्रकृतिः कर्त्रीति साङ्ख्या अभ्युपगच्छन्तीति चेत् सत्यम् | किन्तु तन्मतं “कर्ता शास्त्रार्थवत्त्वा" दित्यादभिः सूत्रैनिंरम्तमिति वेदान्तिनामानिष्टमेव तत् । एवमन्तःकरणस्य कर्तृत्वाभावात् तस्यान्य- त्राध्यासो न सम्भवी । प्रत्ययवैरुप्याच्च । 'रोमि' इति हि प्रत्ययः । अत्र अहमर्थस्य कृत्याश्रयत्वरूपकर्तृत्वं विषयः । तत्र नामार्थमुद्दिश्य आख्यातार्थो विधीयते, आख्यातार्धमुद्दिश्य वा नामार्थो विधीयत इति यथा तथा इदमस्तु । सर्वथा अमर्थाख्यातार्थयोविभागः सम्प्रति- पन्नः । एतदननुरूपो भवद्भ्युपगतोऽध्यासः । “कर्तृत्वविशिष्टान्तः - करणस्य चैतन्यात्मनाऽध्यासेन न तथा ( मनः कर्तृ' इति वा 'चैतन्यं कर्तृ' इति वा ) प्रतीतिः | कुसुमस्य तु स्फटिकात्मना नाध्यास इति वैषम्यात् ।” इति हि भवानाह । एतदनुरूपेण प्रत्ययेन एकतः चैतन्य - मात्रं अपरतः कर्तृत्वविशिष्टान्तःकरणधर्मिणं चावगाहमानेन भाव्यम् । 'इदं क्लृ' इति। न त्वहं कर्तेति । चैतन्यमात्रस्याहमर्थत्वाभावात् । अन्तःकरणस्य कर्तृतया पृथग्भानात् । तदेवं प्रत्ययाननुरूपत्वान्नाभ्यासः । अभ्यासासम्भवच स्थित एव । न तावच्चैतन्यमध्यस्यति । तस्याहमिति स्वानुभवाभावात् । नाप्यन्तःकरणम् | जडत्वात् । प्रमाया इव भ्रमस्यापि तस्मिन्नसम्भवात् । भवदुक्तरीत्या तस्वाध्यस्यमानत्वेन अध्यसितृत्वानु- पपत्तेश्च । नापि मिलितमुभयम् । भवता चैतन्यस्याधिष्ठानत्वेन अन्तःकरणा- १३५