पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ विशिष्टाद्वैतसिद्धिः . प्रथमः व्यवस्था भवतीति, अभेदं कृत्वा ज्ञातृत्वज्ञत्वयोः सामानाधिकरण्य- मध्याहतमितीति च वक्तुमुचितम् । 'यथा उपाधिसम्बन्धो मुखमात्र एव । औपाधिकमालिन्यसम्बन्धस्तु उपाध्यवच्छिन्ने' इति व्यवस्था- प्रदर्शनमयुक्तम् । औपाधिक्रमालिन्यसम्बन्धस्य वस्तुतः उपाध्यवच्छ- न्नेऽप्यभावात् । उपाधिमालिन्यमार्जने वा अमलिनोपाध्यन्तरोपयोगे वह तत्र मालिन्यादर्शनात् । अतः अवच्छिन्नस्याप्यसंसारित्वं युक्तम् । यदि तु तथापि तस्य संसारित्वमुच्यने तर्हि तेनैक्यात् अनवच्छिन्न- मपि संसार्येव । ऐक्यं तु भवतैव साध्यते । वस्तुतस्तु असंसार ब्रह्मैव नास्ति । अविद्याध्यतया शुद्धत्वहा- नातू । आहुच "अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः ।” इति । अविद्याया मिथ्यात्वेन शुद्धत्वानुवृत्तिः | प्रतिबिम्बेऽपि तुल्या । यत्तु "अतिशयेन कार्यकरत्वमेव तत्पक्षपातित्वम् । तथा च विच्छे- दादिरूपकार्यकरत्वसाम्येऽपि स्थौल्याद्यवभासरूप कार्यकरत्वेन दर्पणादेः प्रतिबिम्बपक्षपातित्ववत् कर्तृत्वभोक्तृत्वादिसंसाररूपकार्यकरत्वंना- विद्यायामपि प्रतिविम्वपक्षपातपत्तिः इति तदयुक्तमित्युक्त- प्रायम् । वैषम्यस्य साम्यत्रेषेण प्रदर्शनात् । दर्पणस्य स्थौल्याव- भासरूपकार्यकरत्वम् । अविद्यायास्तु वतृत्वभोक्तृत्वादिसंसाररूप- कार्यकरत्वम् । इति हि विषममेतत् । संसारावभासरूपकार्यकरत्वमिति तु दृष्टान्तानुगुण्येन स्वसिद्धान्तानुगुण्येन च प्रतिबिम्बचैतन्य - मप्यसंसार्येव। “विच्छेदादिरूप कार्यकरत्वसाम्येऽपि ” इति विच्छेदा भ्युपगमश्चानुपपन्नः । न हि शिलाकाष्ठादेरिव ब्रह्मणो विच्छेदो भवति । अविच्छेद्यत्वात् तस्य । न चोपाधयः उपधेयं विच्छिद्योपद्- धति । अदर्शनात् । न हि आकाशस्य घटेन, मुखस्य वा दर्पणेन विच्छेदं पश्यामः । तदेवं शुद्धचितः अविद्याश्रयत्वं वा प्रतिफलनं वा अध्यासो वा संसारित्वं वा किमपि न वक्तुं शक्यमित्यास्तां तावत् । "