पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः चिन्मात्राश्रयत्वम् १९७ ज्ञानस्य प्रतीतिदु घंटैव । प्रतिबिम्बमभ्युपेत्येदमुक्तम् । तदसम्भवस्तु उक्तपूर्वः । वक्ष्यते च । अतः प्रतीत्यसम्भवेन कल्पनवैयर्थ्यादपि अज्ञान- कल्पनं न युक्तः मिति ज्ञेयम् । काल्पनिकत्त्रे च अज्ञानस्य अनादित्वनिष्टं भज्येत । कल्पनेत्युत्पा- दनाभिधानःन् । यत्तु 'कमात्रं हि न दोषजन्यधीमात्रशरोरत्वे सादित्वे वा तन्त्रम् | किन्तु प्रतिभास कल्पकसमान कालीन कल्पकवत्त्वं सादिकल्पकत्वं विद्य ऽनिवृत्त्यप्रयुक्तनिवृत्तिप्रतियागित्वं प्रागभावप्रति - “य गित्वं वा तन्त्रम्”, इति । तदनुपरन्नम् । कल्पितं च अनादि चेति व्याहत र्धवात | अनादि हि न कल्पनामपेक्षत | कल्पनासापेक्षं च कल्प- नातः पूर्व नतिद्धत्वात् अनादिन भवितुमर्हति । कल्पनाऽनादिः। अतः तत्सद्धं वस्त्वपि अनादि" इति चेत् सेयमनादिकल्पना किंरूपेति व्यम् । अत्राह व्याख्याता - - 'अविद्या पहितचिद्रूपाविद्या कल्प- काऽनादिः” इति “अविद्यायास्तु कल्पना स्त्रापहितचिदेव" इति च । एवं अविचलिः अविद्यायाः तत्कृतस्य चिदुपधानस्य चानादित्वमुक्तं भवति । तत्र विकल्पको वा कल्पना वा नांपेक्ष्यते । ततः कल्पकत्वं कल्पनात्वं वाऽभि- 'धोयमानं न युज्यते । अथ सा कल्पनासापेक्षा तहिं तदुपहितचितः तद्भिधीयमानं न युज्यते । कल्पनीयाया अविद्यायाः तत्कल्पनातः पूर्वमसिद्ध या तथा तदानीं चिदुपाधानासम्भवात् । तस्मात् कल्पितत्वे अनादित्वं न घटते । अनादित्वे कल्पितत्वं न घटत इति दुरुत्तरं व्यसनम् । पूर्व पूर्वाविद्या उपधायिका, उत्तरोंत्तरा कल्पितेति अविद्याभेद- मभ्युपगम्य प्रबाहानादित्वं सुवचम् । परं तु अजमेकामिति श्रुति विरुद्धमिदम् । ......... ३४. चिन्मात्राश्रयत्वम् । यचा आश्रयस्तु शुद्धं ब्रह्मैव' इति तदपि न । प्रमाणा-