पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ विशिष्टाद्वैतसिद्धिः प्रथमः । च नीरूपस्याकाशस्य प्रतिबिम्बो दृश्यत इति वाच्यम् । तत्र बिम्बेऽपि वस्तुतो वा भ्रान्या वा रूपदर्शनम् | नीलं नभ इति सर्वानुभवात् । वायोहि न प्रतिबिम्बदर्शनं क्वचिदस्ति । अपि च प्रतिबिम्बद्रष्टा कः ? न तावत् शुद्धचैतन्यम् | तस्याद्रष्टृत्वात् । न च प्रतिबिम्बमेव | चेतनस्य बिम्बस्यैव दर्पणादौ सर्वत्र द्रष्टृत्वात् । प्रतिबिम्बस्य दर्शनकर्मत्वेन कर्तृत्वानुपपत्ते: । न चाज्ञानं द्रष्टृ | तस्य जडत्वात् । तदेवं सर्वमनुपपन्न- मिति स्थितम् । अथापि कल्प्यमानस्याज्ञानस्य ब्रह्मण्येव कल्पनीयत्वात् तस्याज्ञत्वं दुर्वारम् । उपाधेः प्रतिबिम्बपक्षपातित्वेनोपाधिगतस्य मालि- न्यस्य प्रतिबिम्ब एव प्रतिभानेऽपि अज्ञानाश्रयत्वस्य ब्रह्मण्यनिवार- गात् । अत इमङ्गीकुर्वन्नेवाह-स ह-सार्वज्ञ्याद्यैश्वर्यस्य मायानिबन्धनत्वा- श्चेति । अस्मदविद्यानिवृत्तये वेदान्तशास्त्रमिति कृत्वा तच्चिन्तायां प्रवृत्य परं ब्रह्मैव अविद्याग्रस्तं सिद्धान्तयद्भिः सुरक्षितस्तावत् वेदान्त- सम्प्रदायः । यः सर्वज्ञः सर्ववित्, सत्यकामः सत्यसङ्कल्पः, स्वाभाविकी ज्ञानवल- क्रिया च, ज्ञाज्ञो द्वावजावीशनीशो, प्राज्ञेनात्मना सम्परिष्वक्तः, इति वचनशतेन तस्य स्वाभाविकं सार्वकालिकं सार्वज्ञ्यं श्राव्यते । तदत्य- •न्तमसत् कृत्वा प्रत्युत अज्ञत्वं यत् कल्प्यते तत्र किं " मारणलवलेशोऽपि वर्तते । इदं सम्यक् चिन्त्यमानमलं अद्वैतमशास्त्रार्थ इति प्रतिबोधं जनयितुम् । अथाऽपि यन्न प्रतिबुध्यन्ते तन्नूनं तथाविधान्महतो भग- वन्निग्रहसङ्कल्पात् । “एवमेवैषा माया स्वव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयत्वा जीवेशावाभासीकरोति माया चाविद्या च स्वयमेव भवति ।" इति श्रुतिः प्रकृतः म।येति अविद्येति च व्यवहारौचित्यं दर्शयति । यस्मादियं देवतिर्थङ्मनुष्यस्थावरात्मकानि उच्चावचानि अत्यचर्याणि क्षेत्राणि उत्पाद्य दर्शयत तस्मात् मायेति तस्या व्यवहारो युक्तः । यस्मात् स्वर्कः-