पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ विशिष्टाद्वैतसिद्धिः प्रथमः ब्रह्मैव संसरतीति शश एव शृङ्गवानितिवद् व्याइतभाषितम् । जीवस्य ब्रह्मव्यतिरेके सिद्धे तन्नानात्वं सुखदुःखत्र्यवस्थादिभिः एको बहूना मित्यादिश्रुतिभिश्च सिद्धयतीति न तत्साधने अद्य यत्नः क्रियते । नित्यत्वचेतनत्वैऋत्वानि यथा ब्रह्मणः परमार्थतः सन्ति तथा जीवस्य नित्यत्वचेतनत्व बहुत्वानि परमार्थतः सन्तीति सहपाठतात्र्यम् । नित्यत्व- चेतनत्वयोर विशेषेऽपि असङ्ख्येचनां जीवानां सर्वेषां कामसम्पत्तिः तद्नु- ग्रहायत्तेति तन्महिमातिशयं व्यनक्ति मन्त्रः । ख्यातान् मुक्ततया प्रमाणवचनैर्देवानृषीन्मानवान् निरकथयन्ति मुक्तिरहितान्मुक्तान् तथा जीवतः । दीतार्थ प्रसभं नयन्ति वचसां गुभ्भं प्रशंसापरं दुर्व्याख्यातवचःकणाध्यमहः वाक्यत्वधीदुःस्थिताः ॥ २६. अज्ञाने प्रत्यक्षम् जगतो मिथ्यात्वसाधनोपयुक्तमुक्त्वा तदुपादानभूताज्ञाननिरूपणमार- भमाणः प्रथमं तस्य लक्षणमाह अनादिभावरूपत्वे सति ज्ञाननिवर्त्यत्वं वा ज्ञानत्वेन साक्षात् तन्निवर्त्यत्वं वा भ्रमोपादानत्वं वा तल्लक्षणम्, इति । अज्ञानमिति अविद्येति च पर्यायौ । अज्ञानमित्यस्य ज्ञानाभाव इति मुख्योऽर्थः । अत एवाहुः - अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः । इति । अद्वैतसिद्धये तु जगतो मिथ्यात्वं ज्ञाननिवर्त्यत्वं च यं भवति । त्रिगुणात्मिकायाः परमार्थसत्याः प्रकृतेर्जगदुपादानत्वे तद्योगात् अज्ञान- मुपादान मति कल्पयन्ति । अस्य प्रसिद्धचनुरोधेन अभावरूपत्वे भावरूपजगदुत्पत्त्यनुपपत्तेः भावरूपमिदमज्ञानमित्याचक्षते । ईदृशे अज्ञाने प्रमाणतः सिद्धे कामममानि वा अन्यानि वा लक्षणानि भवेयुः | न खलु तद्विमर्शेन किमपि प्रयोजनमस्माकमस्ति । अतस्तमुपेक्ष्य तस्याप्रामाणिकत्वमेव प्रदर्शयामः ।