पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ विशिष्टाद्वैतसिद्धिः प्रथमः भवति । एवं चान्तःकरणवदेव अन्यपि सर्वमस्तीति वक्तुं शक्यत्वात् सुषुप्तौ सर्वलयोक्तिरप्रामाणिकी । तेन उत्थितस्य दृष्टिसृष्टिप्रसङ्ग एव नास्तीति ज्ञेयम् । एतेन 'अस्मादात्मनः' इति जीवस्य परामर्शः । तेन तत्कर्तृका सृष्टिरत्रोच्यत इति निरस्तम्। एष जीवः कुत एतद्ागादिति प्रश्नोत्तरतया प्रवृत्ते सन्दर्भे अपादानतथा निर्दिश्यमानस्य य एपोऽन्त- हृदय आकाशस्त स्मित इति पूर्व सुपुतिकालीनशयनस्थानतया निर्दिष्टपरमात्वत्वावश्यम्भावात् । अत एव प्राणा इति जीवाभिधानम् । देवा इतीन्द्रियोक्तिः व्युच्चरन्तीति च उद्गमनार्थकम् | नोवत्त्यर्थकम् | अस्वरसत्वात् । पूर्व 'प्राणान् गृहीत्वा' इति महणमात्रोक्तेश्च । यत्र यदा एव प्रकृतो जांव: सुप्नोऽभृत् तदा एष क्वाभूदिति प्रश्नस्य य एषोऽन्त- हृदय आकाशः तस्मिन्नभून् इत्युत्तरमिहोत्तम् । कुत श्रागादिति प्रश्नस च यस्मिन्नभूत् तस्मादेव पःस्मादात्मन इत्युत्तरम् । तथा च श्रुतिः सत आगम्येति । सूत्रं च 'अतः प्रबोधोऽस्मात्' इति । तदिह दृष्टि सृष्टि प्रतिपादनप्रयासः क्षीरसागरे लवणोपलम्भप्रयास मनुगच्छतीति ज्ञेयम् । २८. एकजीववादः । “स च द्रष्टा एक एव । तन्नानात्वं मानाभावात्" इत्येक - जीववादं प्रस्तुत्य निस्सङ्कोचं निर्भयं निर्लज्जं च लिखत- "विद्या- वशाद ब्रह्मैक संसरति । स एव जीवः | तस्यैव प्रतिशरीरमहमित्यादि बुद्धि" इति । उपर च शङ्कापरिहारौ - "अथ ब्रह्मण एव जीवत्वेन तस्यैव बन्धमोक्षाविति तस्य नित्यमुक्तत्वादिश्रुतिविरोधः । न । मुक्तेः स्वस्वरूपत्वेन बन्धस्य चाविद्यकत्वेन त विरोधः । न हि मृगतृष्णिका- कल्पितांदकेन स्वभावशुष्का मरुभूमिरार्द्रा भवति ।" इति । तत्र सुख- दुःखव्यवस्था जीवनानात्वे प्रमाणमिति सर्वविदितम् | 'सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाउनुप्रविश्य नामरूपे व्याकरवारिण' इति अहमित्यस्मदा निर्दिष्टाद् ब्रह्मणः अनेन जीवेनेति