पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः एकमेवाद्वितीयम् ६३ प्रत्यक्षबाधसत्त्वात् । अतो भवद्भिमनादन्य एवार्थो द्वैतश्रुनेर्वक्तव्यः । २५ एकमेवाद्वितीयम् । नन्वेकमेवाद्वितीयमिति पदत्रयेण सकलभेदनिषेधः स्फुटमव- गम्यते । यथाहुः - वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृज्ञान्तरात्सजातीय विज्ञानीयः शिलादितः ॥ तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते । एकावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ॥ इति । अयमर्थः । वृक्षस्य पत्रपुष्पफलादिसत्त्वप्रयुक्ता स्ववृत्तिस्व- व्यतिरिक्तवस्तुमता, वृत्तान्तरसत्त्वप्रयुक्ता स्वसजातीयस्वव्यतिरिक्त- वस्तुमत्ता, शिलादिसत्त्वप्रयुक्ता स्वविजातीयस्वव्यतिरिक्तवस्तुमत्ता च दृश्यते । ईदृशस्वव्यतिरिक्त त्रिविधवस्तुमत्ता पदत्रयेण ब्रह्मणो व्यत्र- छत इति एतेनात्र "भेदशब्दः अन्योन्याभावपरो वा भिन्नवस्तु- परो वा आद्ये फलादिभिरिति तृतीयानुपपत्तिः । पञ्चमी ह्यपेक्ष्यते । स्वगत इत्यव्यावर्तकं च । त्रयाणामप्यन्योन्यःभावानां वृक्षनिष्त्वात् । अन्त्ये वृक्षान्तरादिति पञ्चम्यनुपपत्तिः । वृजान्तरं सजातीय भेद इति हि वाच्यम् । तद्यमनन्वितः श्लोकः" इति दूषणं निरवकाशमिति बोध्यम् । तत्कथमन्योऽर्थोऽभिधातु शक्य इति चेन्न | समञ्जसस्यार्था- तरस्य आचार्यैरभिहितत्वात् । "सर्वज्ञ सर्वशक्ति ब्रह्म व सर्वकारणमित्युपदिशन् स होवाच - सदेव सोम्येदमस देकमेवाद्वितीयम् - इत। अत्र इमिति जगन्निर्दिष्टम् । अम इति च पूर्वकालः | तस्मन् काले जगतः सदात्मकतां सदेवेति प्रतिपाद्य, तत् सृष्टिकालेऽवशिष्टिमिति कृत्वा, एकमेवेति सदापन्नस्य जगतस्तदानीमविभक्तनामरूपतां