पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०. विशिष्टाद्वैत सिद्धिः प्रथमः पेक्षरणात् । भूयिष्ठो हि प्रकाशो नेत्ररश्मीनां प्रसरं मन्दीकरोति । तस्या- मवस्थायां अपवरकं प्रविष्टस्य नायनरश्मिप्रसरमान्द्यमेव क्षरणका लं तमोभ्रमं वस्त्वग्रहणं च पादयति । तत्र कः कल्पितस्य तमस उपयोगः । २३. मिथ्यात्वश्रुतिः । प्रकृतानुमानस्य श्रुत्यनुग्रहं दर्शयितुं प्रवृत्तः, एकमेवाद्वितीयमित्येत- दद्वैतपरं कृत्वा, “तत्स्वरूपप्रामाण्ययोग्यतादीनां मिथ्यात्वेऽपि तज्जन्यस्य बोधस्य न मिथ्यार्थविषयत्वम् | मिथ्यात्वप्रयोजकरूपस्य तत्राभावात् । यथा सदर्थबोधकस्वाप्नदेवतावाक्ये” इत्याह । तदयुक्तम् | मिथ्याप्रमा- राजन्यबोधविषयत्वस्यैव मिथ्यात्वप्रयोजकत्वात् । अन्यथा लिङ्गभ्रमेणापि सर्वत्र लिङ्गिप्रमित्यापत्तेः । न च सदर्थस्वाप्नदेवतावाक्ये व्यभिचारः | प्रबोधकाले चर्मचक्षुषोर्गोचरत्वं परिहरन्त्याः स्वसङ्कल्पेन स्वयमेव स्वप्ने प्रादुर्भवन्त्या देवतायाः स्वरूपस्य वा वाक्यस्य वा पारमार्थिकत्वेन मिथ्या- त्वकथागन्धस्यापि विरहात् | स्वप्नद्रष्टृरुपमतिविभ्रमकल्पितत्वाभावात् । कथमिदमवगम्यत इति चेत् वाक्यस्य सदर्थत्वादेव | तस्माद् वेदस्व- रूपादेमिंथ्यात्वेऽपि तत्प्रमेयमद्वैतं सत्यं भविष्यतीति प्रत्याशा अयुक्तैव । उपजीव्यप्रत्यक्षविरोधात् अद्वैतं न श्रुत्यर्थ इति चोक्तम् । उपजीव्यं प्रत्य- क्षप्रामाण्यं व्यावहारिकम् । न तद्वाध्यम् | बाध्यं प्रामाण्यं तात्त्विकम् । न तदुपजीव्यम्। इतीयं कल्पना निर्मूलेति चोपपादितम् । तात्त्विकस्य प्रामाण्यस्यानुपजीवने कस्यापि तात्त्विकस्वार्थस्यासिद्धेः । जगत इव ब्रह्मणोऽप्यतात्त्विकत्वापातान् । न हि भवति स्वप्नदृष्टमञ्ज षा मिथ्या तद्न्तर्दृष्टं रत्नं तु सत्यमिति । तस्य सत्यत्वमुपदिश्यत इति चेत् जग- तोऽपि उत्पत्तिस्थित्यादिवादेन 'कथमसतः सज्जा येते ति सत्त्ववादेन च सत्यंत्वमुपदिश्यत एव । अद्वैत श्रुत्याऽस्य मिथ्यात्वं इति चेत् तहिं तथैव तदन्तर्गत वेदमिथ्यात्वद्वारा तत्प्रमेयस्य ब्रह्मणोऽपि मिथ्यात्वं बोध्यत ू