पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः प्रतिकर्मव्यवस्था ८३ धोनायाः प्रतिकर्मव्यवस्थाया अनुपपत्त"दुष्परिहरैव । कर्म ज्ञानकर्म | विषय इत्यर्थः | विषये विषये व्यवस्था दृश्यते भ्रमेतरस्थले, यत्र नाध्या- सोऽस्ति | वटः सर्वेषां सर्वदा सर्वत्र घटत्वेनैव भासने । न तु कस्यचित् कदाचित् कुत्रचित् सदितत्वेन | एवं पटादि । इयं व्यवस्था नोपपद्यते घटादेराध्यासिकत्वे । पुरुषकालदेशभेदेन अध्यासभेदात् । रज्जुहिं कालदेशादिभेदेन सर्पतया वा भूदलनतया वा अम्बुधारात्त्रेन चा गृह्यते । न तत्र सर्पतयैत्रेति व्यवस्थाऽस्ति । तद्वत् घटादेरध्यस्तत्वे उत्त. विद्याव्यवस्था नोपपद्यते । यत्त्वत्र “प्रतिकर्मव्यवस्थायाः कस्यचित् पुंसः कदाचिदेव कश्चिदेव विषयो ज्ञानकर्म, न सर्वस्य सर्वदा सर्वः, इति प्रतिनियतकर्मव्यव- स्थायाः" इति ब्रह्मानन्दीयं विवरणं तन्न सम्यक् । दृष्टान्ताननुगुण- त्वात् । रज्जुसर्पादिहि सिकः कस्यचिदेव कदाचिदेव कश्चिदेव ज्ञानकर्म भवति न तु सर्वस्य सर्वदा सर्वः । कथं तदृष्टान्तेन घटादि- विषये अव्यवस्थाऽभिवानं घटेत | समाधानाननुगुणत्वाच्च । उक्तामनुप- पत्तिं परिहरता हि एवमुक्तम् - "वृत्तेः पूर्वमेव घटादीनां चैतन्येऽध्यासेन प्रातिभासिकस्थलापेक्षया बैन्” इतिवृत्तः पूर्वमेव अभ्यस्तघट- सत्त्वाङ्गीकारेणात्र अपादितः अव्यवस्थायाः परिहार उच्यत इति स्पष्टम् । न च सर्वस्य सर्वदा सर्वो विषय इतीयमव्यवस्था अनेन परिहृता भवति । प्रत्युत उत्तव्या भवति, पूर्वमेव सत्त्वात् तथा विषयो भवतुमर्हतीति । सिद्धस्य वस्तुतः प्रतीतिविषयेयमन्या अव्यवस्था । इमामाशङ्कय परिहारमुत्तरत्र वक्ष्यति- "यद्यपि प्रकाशकमधिष्ठानचैतन्यं सर्वगतं, जावचैतन्यं चान्तःकरणावच्छिन्नम्, तथापि चैतन्याभेदेना- भिव्यक्तत्वात् व्यवस्थोपपत्तिः ।" इति । प्रकृता तु वस्तुनः सिद्धिहेतुर्यो- ऽध्यासः तद्विषया अन्यैवाव्यवस्था | घटादिप्रत्यक्षात्मिका या वृत्तिः सैव घटादिकमध्यस्य गोचरयति । सा च कदाचित् घटस्थाने पटा- -