पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः प्रथमः ७४ यतः स्वरूपातिरिक्तसत्तानङ्गीकारे सत्ताशून्यत्वंन असदेवाधिष्ठानं स्यात् । स्वरूपे स्वरूपाभावेन स्वरूपमादाय सत्तावत्त्वस्य दुवंचत्वात् । अथ सत्ता नाम अबाध्यत्वमभावात्मकम् | अभावस्य चाधिष्ठानेन भेदाभेदाभ्युपगमात् स्वरूपात्मकत्वं धर्मिधर्मभावांत काचिदनुपपत्तिरिति चेत् तर्हि कारणान्तगतसत्तायामपि तादृशसत्ताया अङ्गीकारेऽनुपपत्त्यभावात् नासतः कारणत्वं कारणस्य वाऽसत्वम् । वस्तुतस्तु सत्त्वविशिष्ठस्य कारणत्वात् अवच्छेदकस्य सत्त्वस्य स्वपरनिर्वाहकत्वात् सत्त्वान्तरापेक्षा नैवास्तीति 'अन्तभावितसत्त्वं चेत् कारणं तदसत् ततः' इत्यापादनमसङ्गतमेवेति वेदितव्यम् । किञ्च कार्यकारणयोः सामानावि करण्यस्यावश्यम्भावात् कार्यता- वच्छेदककारणतावच्छेदकसम्बन्धानुसन्धानकाले कारणस्य सत्त्व- मन्तनत मिति तस्य कारणतावच्छेदकत्वाभ्युपगमोऽनावश्यकः । अथवा किमियता प्रयासेन | कुलालो बटं करोतीत्युक्ते जीवन्निति स्वयं लभ्यते । आख्यातानामर्थं त्रुवतां शक्तिः सहकारिरीति न्यायात् । तथा दण्डः कारणमित्युक्ते सन्निति स्वयं लभ्यत एवेत्यास्तां तावत् । तदेवमसतः क्वापि साधकत्वं नास्ति । भ्रमस्थले “प्रातीतिकस्य कुत्रापि कार्ये हेतुत्वास्वीकारात् तज्ज्ञानस्यैव हेतुत्वात्” इति लघुचन्द्रि- कायामेव विषयस्याहेतुत्वोक्तेः । स्वस्यैत्र स्वकारणत्वापत्त्या कार्योत्पा- दनप्रवृत्तिजनकज्ञानविषयस्य कार्यस्य हेतुत्वासम्भवात् । रेखानुमित- वर्णाना मेवार्थबोधकत्वेन आरोपितवर्णत्वावच्छिन्नानां रेखाणां बोध- कत्वाभावात् । वोधकत्वेऽपि वस्तुसतीनां रेखाणामेव बोधकत्वात् । वववन्नानां रेखाां वस्तुतः सत्वेनासत्त्वाभावात् । हृस्त्रदीर्घध्वन्यभिव्यक्ततत्तच्छन्दस्वरूपस्यैवार्थाभिधायित्वेन ध्वनिध- र्माणां तत्रारोपाभावात् । न च ध्वनिप्रतीत्यभावादारोपावश्यम्भान इति वाच्यम् । झाटित्येन वैशद्याभावेऽपि धूमाद् वह्नयनुमितौ व्याप्तिस्मरणा- । .