पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१रिप्लेदः सोपाधिकस्त्रम् ६३ साध्यम् । ज्ञानव्यतिरेकेणानुपलभ्यमानत्वं चिदाभासे सत्येवोपलभ्य- मानत्वं हेतुरिति न किञ्चिदनुपपन्नम् ।' इति, तत्र वेधम्योच्च न स्वप्नादिवदिति सूत्रकारेण कण्ठोक्त्या निरस्तमथेदं विद्यासागरेण- दृतमनुमानं सौगतसौहार्ददायें व्यञ्जयतीति व्यलीकव्याविद्धमनसा स्वोक्तमेव साध्यादिकमिहाभिप्रेतमिति दर्शितमिति स्फुटमेतत् । अत्र चिदाभासे सत्येवोपलम्भमानत्वं कथं मिथ्यात्वे हेतुरित्युपपाद नीयम् । न ह्यालोके रूपे वा सत्येवोपलभ्यमानस्त्वं घटादेर्मिथ्यात्वं साधयति । न च तदपेक्षयाऽत्र कश्चन विशेषोऽस्ति । तस्मिन् सत्येव तदितरस्योपलभ्यमानत्वं तस्य तदितरोपलम्भे हेतुत्वं गमयतीति हि . प्रामाणिकसरणिः। तदितरस्य मिथ्यात्वमिति कुत एतत् । निद्रोपहत मनोजन्यप्रत्ययविषयत्वात्तु स्वाप्नार्थमिथ्यात्वमित्यलं विस्तरेण । (१३) सोपाधिकत्वम् । दृश्यत्वादिहेतूनां सोपाधिकत्वं परिहरता यदुक्तम् -दोषप्रयुक्त- भानत्वं तु भवति साध्यव्यापकम् । तच साधनव्यापकमपीति नोपाधिः। दृश्यत्वादिनैव मिथ्यात्ववत् तस्यापि साधना द्विति तदयुक्तम् । दृश्य त्बादीनामहीतव्याप्तिकत्वस्यासकृदुक्तवान् । यो बाधितः स एव हि प्रत्ययः स्वविषयस्य मिथ्यात्वं कारणस्य दुष्टत्वं च विना बाधानुपपत्ते- स्तदुभयं गमयन् तेन सह स्वविषयत्वस्य व्याप्तिं ग्राहयति । तत्र अति प्रसक्तस्य सामान्यस्य दृश्यत्वस्य तद्वथाप्यत्वं कथमुच्यते । यदा तु हठादेव व्याप्यत्वं सिद्धमिव कृत्वा तत् हेतूक्रियते तदा व्याप्यवा- सिद्धिप्रदर्शनाय दोषप्रयुक्तभानत्वरूपोपाध्युद्भावनं युज्यत एव । यथा मिथ्यात्वस्य तथा तस्यापि पते सन्दिग्धत्वान्निराबाधमेव साधना व्यापकत्वम् । यदि त्वेवमपि दृश्यस्वादिनैत्र पत्ते दोषप्रयुक्तभानत्व मनुमीयत इत्युच्यते तर्हि धूमवान् बहेरित्यत्र वह्निनाऽऽर्धेन्धनानुमानं