पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ परिच्छेदः अंशित्वम् तत्तन्वारब्धत्वाभावः इति हि व्यतिरेकव्याप्तिः। तत्र एतत्तन्तुनिष्ठ प्रागभावाप्रतियोगित्वमुपाधि । एतत्तन्वारब्धत्वाभावव्यापकस्य एतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वस्य पक्षावृत्तेः पक्षवृत्तितया सन्दिह्य मानैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाव्यापकत्वात्’ इति। इदम- युक्तम । एतत्तन्तुनिष्टप्रागभावाप्रतियोगित्वस्य भवत्साधनेऽप्युपाधि त्वात् । भवति दूतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यव्यापकस्य तस्य पक्षावृत्तेः पक्षान्तर्भावेनांशित्वरूपसाधनाव्यापकत्वम् । एवं एतत्तन्वनारब्धत्वमप्युपाधिः पूर्ववत्साध्यव्यापकत्वे सति साधनाव्या- पकत्वात् । यत्तु नायमुपाधिः। एतद्वयतिरेकेण साध्यव्यतिरेके साध्यमाने सोपाधिकत्वस्योक्तत्वात् । अयं पटः एतत्तन्तुनिष्टात्यन्ताभावप्रतियोगी, एतत्तन्वारब्धत्वान्, इत्युपाधिव्यतिरेकेण साध्यव्यतिरेकः साध्यः । तत्र च यन्नैवं तन्नैवं, यथा भृश्यन्तरमिति व्यतिरेकव्याप्तिर्वाच्या । यस्यां चैतत्तन्तुनिष्टप्रागभावाप्रतियोगित्वमुपाधिरुक्त इति, तन्न । अस्याप्युपाधेः सोपाधिकत्वस्य सुवचत्वात् । अयं पट एतत्तन्त्वरन्धः, एतत्तन्तुनिष्ट प्रागभावप्रतियोगित्वादित्युपाधिविरहेण साध्यविरहे साध्यमान यत्र एतत्तन्वारब्धत्वाभावस्तत्र एतत्तन्तुनिष्ठप्रागभावप्रतियोगित्वाभाव इति व्यतिरेकव्याप्तौ एतत्तन्तुनिष्टरूपसामानाधिकरण्यविरहस्योपाधि- त्वात्। अस्ति हि तस्य एतत्तन्तुनिष्टप्रागभावप्रतियोगित्वाभावव्यापकत्वं पक्षावृत्तित्वं, पक्षवृत्तितया सान्धह्यमानतत्तन्वारब्धत्वाभावाव्यापकत्व च । नात्र सन्दिह्यमानत्वमिति चेत् तुल्यमत्यन्ताभावप्रतियोगिस्वेऽपि । विप्रतिपत्त्या संशय इति चेत् इदमपि तुल्यमेव। यद्यपि अव्याप्यवृत्ति संयोगाभ्युपगमे तत्र व्यभिचारान् अत एव यत्र एतत्तन्तुनिष्ठात्यन्ता भावप्रतियोगित्वं तत्र एतत्तन्वनारब्धत्वमिति साध्यव्यापकताग्रह णस्याष्यसम्भवाच्च नास्योपाधित्वमिति, तदपि न । भवताऽष्यायवृत्ति संयोगानभ्युपगमात् । अभ्युपगमपक्षे एतत्तन्तुत्वाच्छन्नवृत्त