पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ विशिष्टाद्वैतसिद्धिः प्रथम: चोदयन्ति । तत्र उपहितं मिथ्यैव, अतो न व्यभिचार:' इतेि कथं समाधानं भवेत् । अनुपहितविषयो ह्याक्षेपः। खपहितविषयस्तु परिहार इति का गङ्गतिः । अनुपहितो न विषय इत्यत्र पर्यवसानात् सङ्गति रिति चेन्न । पर्यवसानमिति प्रतीतिरभिप्रेता न वा । आद्यऽनुपहितस्य -तत्प्रतीतिविषयत्वान् “अनुपहितो न विषयः” इति माता मे वन्ध्ये- तिवत् व्याघातः । अन्त्ये समधानासङ्गतितादवस्थ्यम् । शाब्दबूच्या शुद्धस्योपधानमभ्युपेत्य एतावदुक्तम् । तदेव तु कथ मिति वक्तव्यम । वृत्त: शुद्धचैतन्यं प्रति को व्यापारोऽस्ति, य उपधानमित्युच्येत । सत्त्वमेव व्यापारः। वृत्तिर्यदा वर्तते तदा शुद्धचैतन्यस्य विषयत्वं भवति । अन्यदा नास्ति । तदुपपन्नमुपधानमिति चेन्न सर्व- विषयसाधारण्यात् । यदा घटविषया वृत्तिर्वर्तते तदैव घटस्य विषय- त्वम् , नान्यदा, तद्वत् शुद्धचैतन्यस्यापि भवतु । तेन को विशेषः घटवदेव तस्यापि विषयवक्षतेः। यदि त्वेवमपि उपहितमेव विषय इत्युच्यते घटोऽपि तथैव विषय इति स्यात्, नियामकाभावात् । ननु शुद्धस्य दृश्यत्वाभावेऽपि स्वत' सिद्धिर्भवति जडस्य घटा- देस्तु दृश्यत्वाभावे अळीकत्वमापतेदिति चेन्न, स्वतः सिद्धेन विषयिण विषयाणामपि सिद्धिसम्भवात् । सर्वविषयविरक्तत्वाच्छुद्धचैतन्यस्य न तेनेतरसिद्धिसम्भव इति चेत् , तर्हि तत् स्वयमपि सेखें न क्षमत इति विभावयतु भवन् , यदि स्वाविषयकमपि चैतन्यं स्वसिद्धये अलम् , तत् कथं पराविषयकमपि तत्सिद्धये नालं भवेत् । तदेवं शुद्धस्य दृश्यत्वमपरिहार्यमिति तदपि मिथ्या स्यात् । अन्यथा हेतोर्यभिचरो दुष्परिहरः । ब्रह्मवदेव शुद्धः प्रपञ्चः सत्यः स्यादित्यर्थान्तरं च । यपुनरत्र बौद्धदूषणम्-एतेन स्फुरणमात्रमेव मिथ्यात्वे तन्त्रम्। लाघवात् । अतः स्फुरदपि ब्रह्म मिथ्यैवेति शून्यवादिमतम