पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्व तसिद्धिः प्रथमः त्वेऽपि प्रपञ्चसत्यत्वं न भवति । परस्परविरहरूपत्वेन परस्परविरह व्यापकत्वेन वा विरुद्धयोर्दूयोरेकतरनिषेधे हि इतरत्वमापतेत् । यथा रजतत्वतदभावयोः रजतभिन्नत्वरजतत्वयोर्वा शुक्तौ । तत्र निषेध्यता वच्छेदकभेदनियमात् । प्रपञ्चसत्यत्वमिथ्यात्वयोस्तु परस्परविरहरूपत्वं वा परस्परविरहव्यापकत्वं वा नास्तीत्युक्तम् । तेन दृश्यत्वादि एकमेव प्रतिषेध्यतावच्छेदकम् । यथा गजे गोवाश्वत्वयोर्गजत्वात्यन्ताभाव- व्याप्यत्वम् । न हि गत्वं न गजवृत्ति गजत्वात्यन्ताभावव्याप्यत्वादि त्युक्ते अश्वत्वस्य गजवृत्तित्वं सिद्धयति । तस्यापि गजत्वात्यन्ताभाव- व्याप्यत्वात् । एवं प्रकृते प्रपञ्चमिथ्यात्वस्य दृश्यत्वादिना मिथ्यात्वेऽपि तत्सत्यत्वस्य नापत्तिः । सत्यत्वस्यापि मिथ्यात्वस्येव मिथ्यात्वात् । दृश्यत्वादिसाधारण्यात् ।” इति । तदिदं उपक्रान्तां जल्पकथां विस्मृत्य शिष्यान् प्रत्युपदिशतैव .क्त विदुषामुपहस्यम् । न हि वादिनः प्रपञ्च मिथ्यात्वं सिद्धं कृत्वा तन्मिथ्या सत्यं वेति विकल्प्य चोदयन्ति, येनैव सुपपत्तिः क्रियेत । अनुमानदूषणतात्पर्येणैव एवं विकल्पनात् । ते चैवं मन्यन्ते। दृश्यत्वादिलिङ्गजन्येयं प्रपञ्चमिथ्यास्त्रानुमितिः किं ब्रह्मप्रतीति- तुल्या, अथवा सत्यरजतप्रतीतितुल्या, यद्वा शुक्तिरजतप्रतीतिमुया। आद्य प्रपञ्चस्य मिथ्यात्वेऽप्यस्य मिथ्यात्वस्य ब्रह्मवत् सत्यत्वेनाहूतभङ्गः। द्वितीये प्रपञ्चसत्यत्वप्राहकप्रबलप्रत्यक्षविरुद्धतया बाधावश्यम्भावेन मिथ्यात्वस्य मिथ्यात्वात् प्रपञ्चEत्यत्वं सुस्थितम् । अत एवाद्वैतभङ्गश्च । तृतीये सुतरां तथेति । तदिह चोद्याभिप्रायमगृहीतवतैव यत्किञ्चिदुक्तम् । न तु चोद्य समाहितमिति ज्ञेयम् । एतेन ‘परस्परविरहरूपत्वेऽपि व्यावहारिक मिथ्यात्वेन व्यावहारिकसत्यत्वापहारेऽपि काल्पनिकसत्यवानपहारात् तार्किकमतसिद्धसंयोगतदभाववत् सत्यत्वमिथ्यात्वयोः समुच्चयाभ्यु पगमाच्च” इत्यादि निरस्तम् । प्रत्यक्षसिद्धप्रपञ्चसत्यत्वविरोधिनस्त न्मिथ्यास्वस्यानुमित्यसम्भवेन व्यावहार्किमिथ्यात्वेन व्यावहारिकसत्य