पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वा तसिद्धिः प्रथमः (१) प्रस्तावः 6, 4 ‘‘भोक्ता भोग्यं प्रेरितारं च मत्वा' इति चिदचिदीश्वरारमकानि त्रीणि तत्त्वानि पृथग् ज्ञातव्यान्युपदिश्य “यस्य पृथिवी शरीरम्” इति चेतनानामचेतनlन च सर्वेषां वस्तूनां शरीरत्वं ब्रह्मणः शरीरित्वं चाभिधाय ‘सदेव सोम्येदमग्र आसीत्” “तदैक्षत बहु स्यां प्रजायेयेति” ‘असद् वा इदमग्र आसीत्’ ‘तदात्मानं स्वयमकुरुत ’ “'सच्च यच्चा भवत्’ इति प्रलये सृष्टौ च विशिष्टमेव ईश्वरतत्त्वं प्रथत इति । तावदसन्देहगन्धं शस्त्राणि प्रतिपादयन्ति । “अधिकं तु भेदनिर्देशात् ’ ‘अश्मादिवच्च तदनुपपत्तिः ” “‘अवस्थितेरिति काशकृत्स्नः ’ ‘‘भोक्ता- पत्ते रविभागश्चेत् स्याल्लोकवत्” इति भगवता सूत्रकारेणापि तत् सुनिरूपितम् । अथापि अन्यमेव कमपि कुतर्कमवलम्बमानाः अचित्त स्वस्य कृत्स्नस्य मिथ्यात्वंचित्तत्त्वस्य परेण ब्रह्मणा ऐक्यं, ब्रह्मणः सकलविशेषरहितत्त्वं च आस्थाय अद्वैतमेव पारमार्थिकमिति प्रतिष्ठापने संरभन्ते । तत्र

कृते च प्रतिकर्तव्यमिति न्यायानुसारिणः। विमर्श कतुमिच्छामो न खण्डनकुतूहलात् ॥४॥ (२) विश्वमिथ्यात्वानुमानम् । यत्तावदत्र अद्वैतसिद्धिकृता पूर्वाचार्यदर्शितमनुमानमुक्तम्- विमतं मिथ्या, दृश्यत्वात्, शुक्तिरूप्यवन्’ इति, तत् लोकशास्त्रयोरत्य न्तविरुद्धत्वाद् आपातम्यमपि न भवति । यस्मात् दृश्यते तस्मादस्ति, तस्मात् सत्यं न मिथ्या, इति हि सवों वदेन्- दृश्यते । न तु यः कोऽपि ‘यस्मात् दृश्यते तस्मान्नास्ति, तस्मान्मिथ्येति’ वदन् । शास्त्रकारा अपि