पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६४ )


व्यख्या

 इति पूर्वोक्तापथगामिवाद्धेतोः प्रयान्त्या नृपमेकं परित्यज्याऽन्यत्र गच्छन्त्या श्रिया राजलक्ष्म्या मुषिताऽपहृता धीः सदसद्विवेकिनी बुद्धिर्येषां तेऽपहृतसन्मतयो दग्धभूषा दुष्टराजानो रभसवशादविमुष्यकारित्वादविचिन्त्याऽज्ञात्वैव बलस्य सैन्यस्य भरोऽतिशयस्तस्य बहुमानोऽतिदर्पस्तस्मात् स्वसैन्याधिक्याप्तिदपेतः परेषां शत्रूणां प्रतापस्तेज एव दीपस्स्तस्मिन् पतङ्गानां शलभकीटानां व्रतं गतिं शलभस्व मित्यर्थः । उपयन्ति प्राप्नुवन्ति । शलभवत्परप्रतापदीपशिखाय भस्म- साद्भवन्तीति भावः । पतङ्गानां वृतमिव व्रतं प्राप्नुवन्तीत्यर्थपरामर्शात् पदार्थ निदर्शनालङ्कारः ।

भाषा

 अनीतिमार्ग पर आरूढ होने से, उन राजाओ को छोड कर अन्यत्र जाने वाली राजलक्ष्मी के द्वारा अपहृत सुबुद्धि वाले दुष्ट राजा लोग, विना विचारे शीघ्रता से कार्य करने के कारण, बडो पलटन होने के अधिक गर्व से अनजान में ही शत्रु के प्रताप रूपो दीपक में फतिङ्गो के समान जलकर भस्म हो जाते है ।

सकलमपि विदन्ति हन्तशून्यं क्षितिपतयः प्रतिहारवारणाभिः ।
क्षणमपि परलोकचिन्तनाय प्रकृतिजडा यदमी न संरभन्ते ॥३२॥


अन्वयः

क्षितिपतयः प्रतिहारवारणाभिः सकलम् अपि शन्यं विदन्ति हन्त । यत् प्रकृतिजडाः अमी परलोकचिन्तनाय क्षणम् अपि न संरभन्ते ।

व्यख्या

 क्षितिपतयो राजानः प्रतिहारैद्वारपालैवरिणाः सर्वजनप्रवेशनिषेधकरणानि तैर्द्वारपालकृतसकललोकापसारणैः सकलपि सम्पूर्णमपि जगत् शून्यं स्व विहाया न्यनियन्तृरहितं विदन्ति जानन्ति हन्तेति खेदे अथवा सर्वशून्यमिति बौद्धमत मवलम्बते । यद्यस्मात्कारणात् प्रकृत्या स्वभावेन जडा मूर्खा अमी भूपाः परलोकस्य मर्त्यलोक विहायाऽन्यलोकस्येहकृतकर्मफलभोगाश्रयभूतस्य जन्मान्तरस्य वा चिन्ततमस्तित्वविचारस्तस्मै परलौकचिन्तनाय क्षणमपि स्वल्पकालमपि न संरभन्ते न चेष्टां विदधति । यदा अपि पुनर्जन्म नोररीकुर्वन्ति । पूर्ववाक्या