पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३२९ )

अन्वयः

 चेतस: अपि अलङ्घ्यतां दधतीः अवटस्थलीभुवः लङ्घयद्भि: तस्य याजिभि: क्षितिः सर्वत: भ्रान्तवातहरिण इव अजायत ।

व्याख्या

 चेतसोऽपि चित्तस्यापि ‘चितन्तु चेतो हृदयं स्वान्तं हृन्मानसं मनः इत्यमर: । अलङ्घ्यतामप्राप्यतां पारं गन्तुमशक्यतामित्यर्थः । दधतीर्धारयतीरवटा भर्ताः 'गर्तावटौ भुवि श्वभ्रे' इत्यमरः । तेषां स्थलीभुवस्ता गतैर्बहुला भूमीर्लङ्घ्यद्भि: पारं गच्छद्भिस्तस्य चोलराजस्य वाजिभिरश्वैः क्षितिः पृथ्वी सर्वतः सर्वत्र भ्रान्ता भयाच्चकिता घातहरिणा वातमृगा: 'वातप्रमीवातमृग: कोकस्त्वीहामृगो वृकः' इत्यमरः । यस्यां सेव निजस्थानपरिभ्रष्ट-भयचकितयातमृगयुवतेयाऽराजात शुशुभे । अत्रोत्प्रेक्षालङ्कार: ।

भाषा

 मन से भी लाघने की कल्पना न की जाने योग्य तबड खाबड़ जमीन को लाघने वाले उस चोलराज के घोडों से मानो पृथ्वी चारो ओर घबड़ाए हुए वातमृगों से युक्त शोभित हो रही थी ।

तेन सैन्यधनुषां शिलीमुखज्यालताप्रणयिनां विभूतिभिः ।
तत्र तत्र विजयश्रियः कृते केलिकाननमिव व्यधीयत ||७२||

अन्वयः

  तेन शिलीमुखज्यालताप्रणयिनां सैन्यधनुषां विभूतिभिः विजयश्रियः कृते तत्र तत्र केलिफाननम् इव व्यधीयत ।

व्याख्या

 तेन चोलराजेन शिली शल्यं मुखेऽग्रे येषां ते शिलीमुखा ग्राणा भ्रमराश्च 'अलिग्राणो शिलीमुखौ' इत्यमरः । ज्यालताश्च मौर्थीरूपलताश्च तासां प्रणयिन: स्नेहिनः सम्बन्धिनस्तेष, संन्यानां चमूनां धनुषि चापाः प्रियालवृक्षाश्च ‘धनुः प्रियाले नाम स्त्री राशिभेदे शरासने' इत्यमरः । तेषां विभूतिभि: समृद्धिभिर्विजयक्षिप विजयलक्ष्म्याः कृते$च तत्र तत्र तत्तत्स्थाने केलिकाननं क्रीडोद्दानमिव व्यधीयत रचितम् । चोलराजेन वारज्यलतासम्बन्धिभिर्सैन्यश्चापप्रतापैस्तत्र तत्र