पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६७ )



तेजस्विनामुन्नतिसमुन्नतात्मा सेहे न बालोऽपि नरेन्द्रसूनुः ।
देवोऽपि भास्वाञ्छरणेच्छयेव समाश्रितो विष्णुपदं रराज१ ॥२३॥

अन्वयः

 उन्नातात्मा बालः अपि नरेन्द्रसूनुः तेजस्विनाम् उन्नतिं न सेहे । भास्वान् देवः अपि शरणेच्छया इव विष्णुपदं समाश्रितः रराज ।

व्याख्या

 उन्नत उन्नतिप्रवण आत्मा यस्य स बलोऽपि स्वल्पवयस्कोऽपि नरेन्द्रसूनु राजपुत्रस्तेजस्विनां तेजसा जाज्वल्यमानानामुन्नति‌मभ्युदयं न सेहे न सोढुं शशाक । यतो भास्वान् सूर्यो देवोऽपि विबुधोऽपि ’अमरा निर्जरा देवास्त्रिदशा विब्रुवाः सुराः' इत्यमरः । शरणेच्छयेव स्वरक्षा याचमात इव विष्णुपवं विष्णोर्भगवतः पदं चरण विष्णुपदमाकाश वा 'वियद्विष्णुपदं वा तु पुंस्थाकाशविहायसी' इत्यमरः । समश्रित प्राप्तो रराज शुशुभे । तस्य बाल्घकालादेव तेजस्पुत्र त्यसहनस्वभावात्सुयो देवोऽपि भीत्या विष्णुपदङ्गत इव शुशुभ इति भावः । अत्र हेतूत्प्रेक्षा ।

भाषा

उन्नतात्मा वह राजपुत्र, बालक होते हुए भी, तेजस्वियो के अभ्युदय को नही सहन कर सकता था । इसलिये मानो, सूर्ये, देव होते हुए भी, इससे अपनी रक्षा करने के लिये भगवान् विष्णु की शरण में गया या आकाश में शोभित हुआ ।

उच्चैः स्थितं तस्य किरीटरत्नं तेजोधनानामुपरि स्थितस्य ।
क्षमामित्र प्रार्थयितुं लुलोठ संक्रान्तिभङ्गया मणिपादपीठे ।।२४॥

अन्वयः

 तेजोधनानाम् उपरिस्थितस्य तस्य उच्चैः स्थितं किरीटरत्नं मणिपादपीठे संक्रान्तिभङ्गधा क्षमां प्रार्थयितुम् इव कुलोठ ।


१ किमपेक्ष्य फल पयोधरान् ध्वनत प्रार्थयते मृगधिप । प्रकृति. खलु सा महीप्सः सहृते नान्यसमुन्नत यया । इत्युक्ते ।

भारवि (किरातार्जुनीये २ सर्गे २१ श्लोक )