पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२५ )

भाषा

 तुम्हारा महाल लडका बडा प्रतापी, विंजय लक्ष्मी का पात्र तथा चौंसठों कलाओं का ज्ञात होकर सूर्यवंशी दिलीप् मान्धाता आदि प्राचीन राजाओं की ख्याति से भी अधिक प्रतिष्ठा प्राप्त करेगा ।

सुतद्वयं ते निजकर्मसम्भवं मम प्रसादाचनयस्तु मध्यमः ।
पयोनिधेः पारगतामपि श्रियं स दोर्मलाद्राम इवाहरिष्यति ॥५३॥

अन्वयः

 सुतद्वयं ते निजकर्मसम्भवं, मध्यमः तनयः तु मम प्रसादात् सः रामः इव दोर्बलात् पयोनिधेः पारगताम् अपि श्रियम् आइरिष्यति ।

व्याख्या

 सुतद्वयं द्वौ पुत्रौ ते तव निजेन स्वकीयेन कर्मणा तपस। सुकृतेन वा सम्भव उत्पत्तिर्ययोस्तत् । द्वौ पुत्रौ तव कठिनव्रतफलरुपाविति भावः । मध्यमो द्विती यस्तनयः पुत्रस्तु मम शिवस्य प्रसादादनुप्रहविशेषाद्भविष्यति । स रामः इव दाशरथिरिव विव्ष्णोभुजयोर्वल शक्तिस्तस्मात् ‘भुजबाहू प्रवेष्टो दो.’ इत्यमरः । पयोनिधेः समुद्रस्य पारगतां पारे गता धियं राज्यलक्ष्मीं रामपक्षे सीतामाहरिष्यति समानेष्यति । अत्रोपमालङ्कारः ।

भाषा

  दो पुत्र तुम्हारे किये हुवे कठिन अनुष्ठानादि कर्मों से प्राप्त होगे । किन्तु तुम्हारा मध्यम पुत्र तो मेरी विशेष कृपा से तुम्हें प्राप्त होगा । यह रामचन्द्र के समन समुद्र के पार गई हुई सीता रूप लक्ष्मी को अपने भुजबल से हैं। आएगा ।

गिरं निपीय श्रुतिशुक्तिमापताम् सुघामिव च्योमपपोनिधिरिति ।
उदञ्चिरोमञ्चतया समन्ततः स शैत्यसम्पर्कमिव न्यवेदयत् ॥५४॥

अन्वयः

 सः व्योमपुओनिधे: श्रुतिशक्तिम् आगतां सुधाम् इव इति गिरं निपीय समन्ततः उदञ्चिरोमञ्चतया शैत्यसम्पर्कम् इव न्यवेदयत् ।