पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२१ )

भाषा


 अपने हाथो से शङ्कर के मन्दिर के आंगन को लीपपोत कर सफा करने वाली रानी, शंकर का मुकुट स्वरूप गङ्गानदी की लहरो के वायु से मानो अपन श्रम दूर करती हुई, राजा की अच्छी तरह सेवा करती थी ।

तथाविधायाः सदृशं यदुन्नतेर्मतं यदौदार्यधनस्य चेतसः ।
तदद्रिकन्यादयितस्य पूजने जितेन्द्रियः कल्पयति स्म पार्थिवः॥४८॥

अन्वयः

 जितेन्द्रियः पार्थिवः तथाविधायाः उन्नते यत् सदृशं, औदार्यधनस्य यत्, मतं तत् अद्रिकन्यादयितस्य पूजने कल्पयति स्म ।

व्याख्या


 जितानि वशीकृतानीन्द्रियाणि येन स यतेन्द्रिपः पार्थिवो राजा ‘राजा राट् पार्थिवक्ष्माभून्वृपभूपमहीक्षितः इत्यमरः । तयाघिषायास्तादृश्या पुत्रप्राप्ति रूपाया उन्नतेरभ्युदयस्य यत् सदृशं योग्यं कार्यमोदार्यंमेव धनं यस्य तस्य चेतस श्चित्तस्य मन्मतमिष्टमुदारचित्तेन च यत्सम्पादनीयं स्यात्तत्सर्वं सेवाकार्यं तत्सामग्री च वित्तशाठ्यविवर्जित' इति स्मरणात् । अद्रिकन्यायाः पार्वत्या दयितस्य पत्यु' शिवस्य पूजने पूजायां कल्पयति रचयति स्म । पक्षानुलो रमयलिरिति न्यायाद्यथाकायं सर्वमकल्पयदिति च ।

भाषा

 जितेन्द्रिय राजा, वैसी पुत्र प्राप्ति के सदृश उच्च कामना के अनुरूप और उदारचित्त की प्रेरणा के अनुसार शंकर के पूजन में सब उत्तम वस्तुओं का प्रयोग करता था ।

इति क्षितीद्रश्चिरमिन्दुशेखर-प्रसादनाय व्रतमुग्रमाश्रितः ।
कदाचिदाकर्णयति स्म भारतीं प्रभातपूजासमये नभश्चरीम् ॥४८॥

अन्वयः

 इति इन्दुशेखरप्रसादनाय चिरम् उग्रं व्रतम् आश्रितः क्षितीन्द्रः कदाचित् प्रभावपूजासमये नभचरीं भारतीम् आकर्णयति स्म ।