पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ॥ रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ २ ॥
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ॥ सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ ३ ॥
[१]सुपुष्टबलसंघुष्टां यथैव विटपावतीम् ॥ चारुतोरणनिर्यूहां [२]पाण्डुरद्वारतोरणाम् ॥ ४ ॥
भुजगाचरितां गुप्तां [३]शुभां भोगवतीमिव ॥ तां सविद्युद्धनाकीर्णां [४]ज्योतिर्मार्गनिषेविताम् ॥ ५ ॥
[५]मन्दमारुतसंचारां [६]यथेन्द्रस्यामरावतीम् ॥ शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ ६ ॥
किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् ॥ आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ ७ ॥
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ॥ ८ ॥
जाम्बूनदमयैर्द्वारैवैडूर्य[७]कृतवेदिकैः ॥ [८]वज्रस्फटिकमुक्ताभिर्मणि[९]कुट्टिमभूषितैः ॥
तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ॥ ९ ॥
वैडूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः ॥ चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः ॥ १० ॥
क्रौञ्चबर्हिणसंघुष्टै राजहंसनिषेवितैः ॥ तूर्याभरणनिर्घोषैः सर्वतः [१०]प्रतिनादिताम् ॥ ११ ॥
वस्वोकसाराप्रतिमां [११]तां वीक्ष्य नगरीं ततः ॥ [१२]खमिवोत्पतितुं कामां जहर्ष हनुमान्कपिः ॥ १२ ॥
तां समीक्ष्य पुरीं [१३]रम्यां राक्षसाधिपतेः शुभाम् ॥ अनुत्तमा[१४]मृद्धियुतां चिन्तयामास [१५]वीर्यवान् ॥ १३ ॥
नेयमन्येन नगरी शक्या धर्षयितुं बलात् ॥ रक्षिता रावणबलैरुद्यतायुध[१६]धारिभिः ॥ १४ ॥
कुमुदाङ्गदयोर्वापि सुषेणस्य [१७]महाकपेः ॥ प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ १५ ॥


चाहुः । यद्वा लम्बे लम्बमान इव स्थिते । लम्बशिखरे त्रिकूटशिखरे । सत्त्वं व्यवसायं । धैर्यमिति यावत् । विवेश प्राप ॥ १-३ ॥ विटपावतीं अलकां । निर्यूहो मत्तवारणः । पाण्डुरद्वारतोरणां पाण्डुरे द्वारतोरणे यस्यास्तां ॥ ४-७ ॥ विस्मयाविष्टहृदयः । अभूदिति शेषः ॥ ८ ॥ पुनर्हर्षहेतूनाह----जाम्बूनदमयैरित्यादिना ॥ जाम्बूनदमयैर्द्वारैरित्यादौसहयोगे तृतीया । वज्र-

स्फटिकमुक्ताभिरित्यत्रापि कृतवेदिकैरिति संबध्यते । राजतामलपाण्डुरैः अवयवैः ॥ ९ ॥ स्फाटिकान्तरपांसुभिः स्फटिकमयाङ्गणपांसुभिः । संजवनं चतुश्शालं ॥ १०-११ ॥ वस्वोकसारा अलका । यद्वा वस्वोकसारा पूर्वदिगवस्थिताशक्रपुरी । "वस्वोकसारा शक्रस्य पूर्वस्यां दिशि वै पुरी" इतिपुराणवचनात् ॥ १२-१४ ॥ प्रसिद्धेयमिति । इयं लङ्का विदिता


लङ्घनादावप्रतिहतशक्तिः । हनुमान्लंबेलंबमानाकारे । लंबतोयदसंनिभेलंबशिखरे लंबपर्वतशिखरे । मेधावीतत्कालोचितकर्तव्यविषयप्रज्ञायुक्तःसन् । सत्वमास्थाय लङ्काप्राप्तिमात्रोपयुक्तलङ्घनशक्तिमास्थायनिशिविवेशेतिसंबन्धः ॥ ति० लंबशिखरेउन्नतशिखरेलंबेलंबाख्यपर्वते ॥ १-२ ॥ रामानु० सागरोपमनिर्घोषांसागरनिर्घोषोपमनिर्घोषां । विटपावतींअलकां । 'क्षयःपुण्यजनानांस्यादलकाविटपावती' इतिवचनात् । तोरणस्यनिर्यूहःतोरणनिर्यूहः । चारुःतोरणनिर्यूहोयस्यास्तां । प्राकारशब्देनप्राकारसमीपोलक्ष्यते । 'अद्वारेणमहाबाहुःप्राकारमभिपुप्लुवे' इत्युपरिवक्ष्यमाणत्वात् ॥ २-८ ॥ ति० चण्डमारुतानांपरिवहादीनांशब्दोयस्यांतादृशींअमरावतीमिवस्थितां । अत्रामराःसन्त्यस्यामित्यमरावतीद्यौः । असंज्ञायामपि 'मतौबह्वचः' इत्यार्षोदीर्घः । नत्विहेन्द्रपुर्यमरावती । उक्तलक्षणाभावात् । लङ्कायाउक्तसादृश्यंचसालङ्कारराक्षसवत्त्वाद्वलवद्धोषबाहुल्याच्चेतिकतकः । शि० अमरावतींंयथा संपत्त्याइन्द्रपुरीसदृशीं ॥ ६ ॥ शि० अन्येन रामभिन्नेनजनेन । बलात्पराक्रमात्धर्षयितुंनशक्या ॥ १४ ॥ रामानु० प्रसिद्धा दुष्प्रवेशत्वेनप्रसिद्धाइयंनगरीकुमुदाङ्गदयोःमहाकपेःसुषेणस्यापिमैन्दद्विविदयोरपिभूमिःविषयोभवेत् । ति०

  1. च. छ. ज. पाठेषु. सुपुष्टबलसंघुष्टामित्यर्धस्यस्थाने. सुपुष्टबलसंघुष्टांगुप्तांरक्षोगणैर्भूशं । वस्वोकसारप्रतिमांय..विटपावतीं । इत्येकःश्लोकोदृश्यते. ङ. झ. सुपुष्टबलसंपुष्टां. ग. सुदुर्गोराक्षसैर्गुप्तां. क. सुपुष्पफलसंयुक्तां.
  2. ञ. पाण्डुरध्वजत..रणां.
  3. च. छ. ञ. गुहां.
  4. ग. ङ.---ट. ज्योतिर्गण.
  5. ख. ग. ङ.--–ट. चण्डमारुतनिर्ह्लादां.
  6. क. ङ. झ. ञ. ट. यथाचाप्यमरावतीं. ग. च. छ. ज. यथावदमरावतीं.
  7. ञ. कृततोरणैः.
  8. ख. ङ. झ. ञ. ट. मणिस्फटिक.
  9. क. च. छ. ज. कुट्टिमवेदिकैः.
  10. ङ. झ. ट. परिनादितां.
  11. क. ग.---ट. समीक्ष्य.
  12. क. ख. ङ. छ. ट. खमिवोत्पतितांलङ्कां.
  13. क. ख. ङ. झ. ञ. ट, लङ्कां.
  14. क. ङ. झ. ञ. ट. मृद्धिमतीं. च. छ. ज. मृद्धियुक्तां.
  15. क. वानरः.
  16. ङ. झ. ट. पाणिभिः.
  17. क. ख. महात्मनः.