पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

स तैः [१]संभावितः पूज्यः प्रतिपन्नप्रयोजनः ॥ जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥ २०८ ॥
प्राप्तभूयिष्ठपारस्तु सर्वतः [२]प्रतिलोकयन् ॥ योजनानां शतस्यान्ते वनराजिं ददर्श सः ॥ २०९ ॥
ददर्श च पतन्नेव विविधद्रुमभूषितम् ॥ द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ॥ २१० ॥
सागरं [३]सागरानूपं सागरानूपजान्द्रुमान् ॥ सागरस्य च पत्नीनां [४]मुंखान्यपि विलोयकन् ॥ २११ ॥
स महामेघसंकाशं समीक्ष्यात्मान[५]मात्मवान् ॥ निरु[६]न्धन्तमिवाकाशं चकार मतिमान्मतिम् ॥ २१२ ॥
कायवृद्धिं प्रवेगं च [७]मम दृष्ट्वैव राक्षसाः ॥ मयि कौतूहलं कुर्युरिति मेने [८]महाकपिः ॥ २१३ ॥
ततः शरीरं संक्षिप्य तन्महीधरसन्निभम् ॥ पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥ २१४ ॥
[९]तद्रूपमतिसंक्षिप्य हनुमान्प्रकृतौ स्थितः ॥ त्रीन्क्रमानिव विक्रम्य [१०]बलिवीर्यहरो हरिः ॥ २१५ ॥

स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् ॥
[११]परैरशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥ २१६ ॥
ततस्स लम्बस्य गिरेस्समृद्धे [१२]विचित्रकूटे निपपात कूटे ॥
सकेतकोद्दालक[१३]नालिकेरे [१४]महाद्रिकूटप्रतिमो महात्मा ॥ २१७ ॥
ततस्तु संप्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ॥
कपिस्तु तस्मिन्निपपात पर्वते विधूय रूपं व्यथयन्मृगद्विजान् ॥ २१८ ॥


॥ २०६-२०७ ॥ संभावितः पूजितः । प्रतिपन्नप्रयोजनः प्राक्प्रतिभासितकार्यसारः । सच स्त्रीत्वे दोषे समानेपि सुरसाया जयप्रतिपत्तिः सिंहिकाया वधप्रतिपत्तिश्च ॥ २०८ ॥ प्राप्तभूयिष्ठपारः प्राप्तप्रायतीरः ॥ २०९ ॥ मलयोपवनानि लङ्कामलय इति दक्षिणतीरे स्थितमलय: तस्योपवनानि ॥ २१० ॥ सागरस्य पत्नीनां नदीनां त्रिकूटोत्पन्नानां आत्मानं स्वशरीरं । मतिं चकार मेन इति यावत् ॥ २११–॥ २१२ ॥ कथं मेन इत्यत्राह कायवृद्धिमिति ॥ २१३ ॥ पुनः प्रकृतिमापेदे पुनर्निजाकारं प्राप्त-

वान् ॥ २१४ ॥ उक्तं शरीरसंक्षेपं दृष्टान्तार्थमनुवदति---तदूपमिति ॥ २१५ ॥ प्रतिपन्नरूपः प्रतिपन्नस्वभावशरीरः । अभूदितिशेषः । समीक्षितात्मा समीक्षितदेहः । समवेक्षितार्थः निरूपितकार्यः । पूर्वोक्तोपसंहारश्लोक एषः ॥ २१६ ॥ लम्बस्य लम्बमानस्येव स्थितस्य अविज्ञाताग्रस्येत्यर्थः । विचित्रकूटे विविधाश्चर्यसमूहे । "कूटस्त्वस्त्रियां पुञ्जपालयोः" इति दर्पणः । उद्दालकाः श्लेष्मातकाः ॥ २१७ ॥ व्यथयन्मृगद्विजानित्यादिविशेषं वक्तुमुक्तमर्थमनुवदति---ततस्त्विति ॥ समुद्रतीरं तीरोपर्याकाशं । विधूय


स० प्राप्तभूयिष्ठपारः प्राप्तप्रायं भूयिष्ठपारं महालङ्काद्वीपतीरंयेनसः ॥ २०९ ॥ ति० पतन्नेवगच्छेन्नवमलयोपवनानि । अनेनोत्तरतीरइवदक्षिणतीरेपिमलयाख्यःपर्वतोस्तीतिगम्यते ॥ २१० ॥ ती० वीतमोहःनिवृत्ताविद्यः ॥ २१४ ॥ रामानु० चारुनानाविधरूपधारीतत्तकार्यानुगुण्येनपरिगृहीतरमणीयस्थूलसूक्ष्मादिरूपः । परैःसिंहिकादिभिः । अशक्यः अप्रधृष्यः । स:परंसमुद्रतीरमासाद्यसमीक्षितात्मा समालोकितातिप्रमाणस्वशरीरः समवेक्षितार्थःसमालोचितकार्यः प्रतिपन्नरूपः अङ्गीकृतनिजशरीरः अभूदितिशेषः । ती० समवेक्षितार्थःआलोचितानन्तरकार्यः । प्रतिपन्नरूपःअङ्गीकृतपृषदंशदेहः ॥ ११६ ॥ इतिप्रथमःसर्गः ॥१॥

  1. क. संपूजितःपूज्यैः. क. ज.---झ. ट. संपूजितःपूज्यः.
  2. ङ. झ. ञ. ट. परिलोकयन्. च. प्रविलोकयन्.
  3. क. ङ. च. छ. झ. ञ. ट. सागरानूपान्.
  4. ख. ग. मुखान्यभि.
  5. ख. मात्मना.
  6. घ. संनिरुद्धमिवा.
  7. घ. दृष्ट्वैवमम.
  8. ङ. ट. महामतिः.
  9. ग. च. छ. ज. तद्रूपमपि.
  10. घ. बलियंज्ञहरो. क. बलवीर्याधिको.
  11. ख. ङ. झ. ट. रशक्यं.
  12. क. सचित्रकूटे.
  13. ङ.---ट. नारिकेले.
  14. ख.---छ. झ. ञ. ट. महाभ्रकूट.