पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

engly १२४ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ ॥ तच्छ्रुत्वा नारदो वाक्यं रावणस्य दुरात्मनः ॥ चिन्तयित्वा मुहूर्त तु महात्मा प्रत्युवाच तम् ॥६॥ अस्ति राजन्महाद्वीपः क्षीरोदस्य समीपतः ॥ यत्र ते चन्द्रसंकाशा मानवाः सुमहाबलाः ॥ ७ ॥ महाकाया महावीर्या मेघस्तनितनिस्वनाः ॥ महामात्रा धैर्यवन्तो महापरिघबाहवः ॥ श्वेतद्वीपे मया दृष्टा मानवा राक्षसाधिप || बैलवीर्यसमायुक्तान्यादृशांस्त्वमिहेच्छसि ॥ ९ ॥ नारदस्य वचः श्रुत्वा रावणः प्रत्युवाच ह || कथं नारद जायन्ते तस्मिन्द्वीपे महाबलाः ॥ १० ॥ श्वेतद्वीपे कथं वासः प्राप्तस्तैः सुमहात्मभिः ॥ एतन्मे सर्वमाख्याहि प्रभो नारद तत्त्वतः ॥ ११ ॥ त्वया दृष्टं जगत्सर्व हस्तामलकवत्सदा || रावणस्य वचः श्रुत्वा नारदः प्रत्युवाच तम् ॥ १२ ॥ अनन्यमानसा नित्यं नारायणपरायणाः ॥ तदाराधनसक्ताश्च तच्चित्तास्तत्परायणाः ॥ १३ ॥ एकान्तभावानुगतास्ते नरा राक्षसाधिप || तच्चित्तास्तद्गतप्राणा नरा नारायणं श्रिताः ॥ श्वेतद्वीपे तु तैर्वास आर्जितः पुण्यकर्तृभिः ॥ १४ ॥ ये हता लोकनाथेन शार्ङ्गमानम्य संयुगे || चक्रायुधेन देवेन तेषां वासस्त्रिविष्टपे ॥ १५ ॥ न हि यज्ञफलैस्तात न तपोभिर्न संयमैः ॥ न च दानफलैर्मुख्यैः स लोकः प्राप्यते सुखम् ||१६|| नारदस्य वचः श्रुत्वा दशग्रीव: सुविस्मितः ॥ ध्यात्वा तु सुचिरं कालं तेन योत्स्यामि संयुगे || आपृच्छ्य नारदं प्रायाच्छ्रेतद्वीपाय रावणः ॥ १७ ॥ नारदोपि चिरं ध्यात्वा कौतूहलसमन्वितः || दिक्षुः परमाचर्य तत्रैव खरितं ययौ ॥ १८ ॥ स हि केलिकरो विप्रो नित्यं च समरप्रियः ॥ १९ ॥ रावणोपि ययौ तत्र राक्षसैः सह राघव ॥ महता सिंहनादेन नादयन्स दिशो दश ॥ २० ॥ गते तु नारदे तत्र रावणोपि महायशाः ॥ प्राप श्वेतं महाद्वीप दुर्लभं यत्सुरैरपि ॥ २१ ॥ तेजसा तस्य द्वीपस्य रावणस्य वलीयसः ॥ तत्तस्य पुष्पकं यानं वातवेगसमाहतम् ॥ अवस्थातुं न शक्नोति वाताहत इवाम्बुदः ॥ २२ ॥ सचिवा राक्षसेन्द्रस्य द्वीपमासाद्य दुईशम् || अब्रुवन्रावणं भीता राक्षसा जातसाध्वसाः ॥ २३ ॥ राक्षसेन्द्र वयं मूढा भ्रष्टसंज्ञा विचेतसः || अवस्थातुं न शक्ष्यामो युद्धं कर्तुं कथंचन ॥ २४ ॥ एवमुक्त्वा दुद्रुवुस्ते सर्व एव निशाचराः ॥ २५ ॥ रावणोपि हि तद्यानं पुष्पकं हेमभूषितम् || विसर्जयामास तदा सह तैः क्षणदाचरैः ॥ २६ ॥ गँते तु पुष्पके राम रावणो राक्षसाधिपः ॥ कृत्वा रूपं महाभीमं सर्वराक्षसवर्जितः ॥ प्रविवेश तदा तपे स रावणः ॥ २७ ॥ प्रविशन्नेव तत्राशु नारीभिरुपलक्षितः ॥ २८ ॥ (2 मथाकामं तत्तदिच्छानुसार्यायुधादिना | मानवाः तदादयः ॥ ५ ॥ महाद्वीपं । ' द्वीपोस्त्रियां' इत्यमरः । द्विर्गताआपोत्र | ऋक्पूरब्धूः " ~ इत्यप्प्रत्ययः । “यन्तरुपसर्गेम्योपईतू" | चन्द्रसंकाशाः शुभ्रवर्णाः ॥ ७ ॥ स्तनितंशब्दः ॥ ८ ॥ बहुवीर्य - बलोपेताम्यादृशांस्त्वमिच्छसि ॥ ९ ॥ श्वेतद्वीपे केवलंहरिनिलये ॥ १ ॥ हस्तामलकवत् हस्तन्यस्तामलकवत् अमलोदकवद्वा ॥ १२ ॥ आर्जितः तपसासंपादितः ॥ १४ ॥ त्रिविष्टपे स्वर्गे ॥ १५ ॥ सलोकः भगवल्लोकः ॥ १६ ॥ तेन हरिणा | आपृच्छ्य गच्छामीति ॥ १७ ॥ कौतूहलसमन्वितः अपूर्वसमरदर्शनकौतुकः ॥ १८ ॥ केलिकरः क्रीडापरः ॥ १९ ॥ दुर्दशं दुस्साध- दर्शनं । राक्षसाः दूताः ॥ २३ ॥ महाभीमं मायया । सर्वराक्षसवर्जितः स्वसेवक विकलः ॥ २७ ॥ नारीभिः तत्रत्याभिः । [ पा० ] १ ङ. च. छ. झ ञ. महाद्वीपं. २ठ, बहुवीर्यबलोपेतान्यादृशान् ३ ङ च छ. झ ञ सुमहात्मभिः, ४ ङ झ. ज. गतंतुपुष्पकंराम. 181