पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ पश्य शैलं सुविस्तीर्ण सुरैरध्युपितं तदा || तस्मिन्रम्ये गिरिवरे बहुमूलफलाशनः ॥ १२ ॥ ममान्तिकचरो नित्यं भव वानरपुङ्गव ॥ कंचित्कालमिहास्व त्वं तव श्रेयो भविष्यति ॥ १३ ॥ एवमुक्तः स चैतेन ब्रह्मणा वानरोत्तमः ॥ प्रणम्य शिरसा पादौ देवदेवस्य राघव || उक्तवाँल्लोककर्तारमादिदेवं जगद्गुरुम् ॥ १४ ॥ यथाऽऽज्ञापयसे देव स्थितोऽहं तव शासने || एवमुक्त्वा हरिदेवं ययौ हृष्टमनास्तदा ॥ १५ ॥ स तदा द्रुमपण्डेषु फलपुष्पधनेषु च || ब्रह्मप्रतिबलः शैध्ये बने फलकृताशनः ॥ १६ ॥ क्वचिन्मधूनि मुख्यानि चिन्वन्पुष्पाण्यनेकशः || दिनेदिने च सायाहे ब्रह्मणोन्तिकमागमत् ॥१७॥ गृहीत्वा राम मुख्यानि पुष्पाणि च फलानि च ॥ ब्रह्मणो देवदेवस्य पादमूले न्यवेदयत् ।। १८ ।। एवं तस्य गतः कालो बहुः पर्यटतो गिरिम् ॥ १९ ॥ कस्यचिवथ कालस्य समतीतस्य राघव || ऋक्षरादानरश्रेष्ठस्तृष्णया परिपीडितः ॥ २० ॥ उत्तरं मेरुशिखरं गतस्तत्र च दृष्टवान् || नानाविहङ्गसंघुष्टं प्रसन्नसलिलं सरः ॥ २१ ॥ चलत्केसरमात्मानं कृत्वा तस्य तटे स्थितः ॥ ददर्श तसिन्त्सरसि वऋच्छायामथात्मनः ॥ २२ ॥ कोऽयमस्मिन्मम रिपुर्वसत्यन्तर्जले महान् || रूपं चान्तर्गतं तत्र वीक्ष्य तत्पाथसो हरिः ॥ २३ ॥ क्रोधाविष्टमना ह्येष नियतं माऽवमन्यते || तदस्य दुष्टभावस्य कर्तव्यो निग्रहो मया ॥ २४ ॥ एवं संचिन्त्य मनसा स वै वानरचापलात् || आप्लुत्य चापतत्तस्मिन्दे वानरसत्तमः ॥ २५ ॥ उत्प्लुत्य तस्मात्सरस उत्थितः प्लवगः पुनः ॥ तस्मिन्नेव क्षणे राम स्त्रीत्वं ग्राप स वानरः ॥ २६ ॥ मनोज्ञरूपा सा नारी लावण्यललिता शुभा || विस्तीर्णजघना सुअर्नीलकुञ्चितसूजा ॥ २७ ॥ मुग्धा सस्मितवक्त्रा च पीनस्तनतटा शुभा ॥ इदतीरस्थिता भाति ऋजुयष्टिलेता तथा ॥ २८ ॥ त्रैलोक्यसुन्दरी कान्ता सर्वचित्तप्रमाथिनी || लक्ष्मीव पद्मरहिता चन्द्रज्योत्स्लेव निर्मला ॥ २९ ॥ रूपेणाप्यभवत्सा तु श्रीर्गीर्देवी उमा यथा ॥ द्योतयन्ती दिश: सर्वास्तत्राभूत्सा वराङ्गना ॥ ३० ॥ एतस्मिन्नन्तरे देवो निवृत्त: सुरनायकः || पादावुपास्य देवस्य ब्रह्मणस्तेन वै पथा ॥ ३१ ॥ तस्यामेव च वेलायामादित्योपि परिभ्रमन् ॥ तस्मिन्नेव वने सोभूद्यस्मिन्त्सा तनुमध्यमा ॥ ३२ ॥ युगपत्सा तदा दृष्टा देवाभ्यां सुरसुन्दरी || कन्दर्पवशगौ तौ तु दृष्ट्वा तां संचभूवतुः ॥ ३३ ॥ ततः क्षुभितसर्वाङ्गौ सुरेन्द्रतपनावुभौ ॥ तद्रूपमद्भुतं दृष्ट्वा त्याजितौ धैर्यमात्मनः ॥ ३४ ॥ ततस्तस्यां सुरेन्द्रेण स्कन्नं शिरसि पातितम् ॥ अनासाद्यैव तां नारीं सँन्निवृत्तमथोऽभवत् ॥ ततः सा वानरपति प्रासूत बलशालिनम् ॥ ३५ ॥ अमोघरेतस्त्वात्तस्य वासवस्य महात्मनः ॥ वालेषु पतितं बीजं वाली नाम बभूव ह ॥ ३६ ॥ आस्ख उपविश ॥ १३ ॥ हरिः कपिः ॥ १५ ॥ बहुःकालः ॥ १९ ॥ आत्मनः स्वस्य ॥ २२ ॥ अन्तर्जले जलमध्ये ॥ पश्यतस्तस्यरूपमन्तर्गतं ॥ २३ ॥ दुष्टभावस्य दुर्मनसः ॥ २४ ॥ तस्मात्पुनःलवगउत्थितः ॥ २६ ॥ ऋजुष्टिः लतावल्ली ॥ २८ ॥ सर्वचित्तप्रमाथिनी सर्वेषांपुंसां ॥ २९ ॥ श्रियं रमां । अभ्यभवत् अजयत् ॥ ३० ॥ निर्वृतः सुखितः । उपास्य सेविला | पथा मार्गेण ॥ ३१ ॥ तस्यांवेलायां इन्द्रागमनसमये ॥ ३२ ॥ सुरसुन्दरी सुरतरुणी ॥ ३३ ॥ आत्मनः सर्वस्वामिनोहरेः सकाशात् धर्मत्याजितौ देवेच्छ्याव्यक्तथमतावभूतां ॥ ३४ ॥ स्कन्नं रेतः | निवृत्तमदः सइन्द्रः | जज्ञे जनयामास ॥ ३५ ॥ वालेषु रोमसु ॥ ३६ ॥ [पां०] १ ङ. वानरोतिबलः शीघ्रंवने. २ ङ. च. झ. ल. दुष्टभावस्यपुष्कलंकुमतेर्गृहं. ३ झ. ठ. रूपेणाभ्यभवत्सातु श्रियं देवीमुमायथा ४ ठ. निर्वृतः ५ठ सनिवृत्तमदोभवत् ६ ङ च छ. झ ञ पतिजज्ञेवानरमीश्वरं.