पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22 SANDHYAKARA NANDI. ऽभूत् हरिणेन मृगेन अरूपेण उपामितं धाम वपुर्थस्य, अविग्रहोऽतनुः कामः तं पालयति तस्योदये तस्य प्रभावात् । नता न्यग्मता पतपर्यस्मात् रथात् स तादृक् रथ: स्यन्दनो यस्य ॥ ८ ॥ सहसावितरणजितकर्णः क्षौणों यौवनश्रियोदूहे । अश्रान्तदानवारातिशयो योभूदृषानुचरः ॥ १ ॥ सहसेत्यादि । यो दशरथो यौवनश्रिया तरुणिमसंपन्या मह क्षौणीमुदूहे । सहस्रावितरणेनाविलम्बि तदानेन जितः कर्ण: कानौनो येन अश्रान्तोऽप्राप्तश्रमो दानवारातीनां देवानां शयः करो यस्मात् । अत एव हि असुरपराजयसिद्धेः विबुधैः करेण प्रहरणग्रहणश्रमोपि नामादितः । तथाहि वृषानुचर: प्रचী- महचरानुचरोभूत् । अन्यत्र । यो विग्रहपालो यौवनश्रिया कर्णस्य राज्ञः सुतया मह चौलोमुहूढ़वान् । महमा वलेनावितो रक्षितो रणजितः संग्रामजितः कर्णो दाहलाधिपति चैन । रणजित एव परन्तु रचितो न उन्मूलितः । कपालसन्धिघ (म)टनात् । दानवारो दानसमुच्चयो भूमिकाञ्चनकरितुरगादिभि नाना प्रकार दान तस्यातिशय: प्राचुर्य्यं म चाश्रान्तोऽविच्छिन्नो यस्य अतएव 'वृषानुचरो धर्मानुगतः ॥ ८ ॥ अथ तस्य महौपालः सुरपालोपि पुरुषोत्तमो रामः । स्फुरदृश्य शृङ्गसम्भावितरूपश्चारुभाग्यसम्पन्नः ॥ १० ॥ जगदवनैकधुरौणः सामयिकमहोमहानलो भरतः । अपि लक्ष्मणोपि शत्रुघ्नलक्ष्मणो जज्ञिरे तनयाः ॥ ११ ॥ येत्यादि । लोकद्वयेन कुलकं । तस्य दशरथस्य तनयाः सुता जजिरे । तत्र प्रथमं रामो रामभद्रो नाम । स च महीपालः महौँ पालितवान् । सुरपालः सुरान् पालितवान् पुरुषोत्तमो हरिरवतीर्णः । स्फुरता ऋष्यश्टण मुनिना सम्भावितमुपेदितं रूपं खरूपं यस्य । अचैव विशेष: । शरुर्हव्यपाकस्तस्य भागोऽश: चरुभागस्तस्य भावश्चारुभाग्यं तेन सम्पन्नः । तथाहि “ऋष्यश्टङ्गचरोरंशः प्रथमोऽयं महाभुजः” ॥ अन्यच तस्य विग्रहपालस्य तनया जज्ञिरे । तत्र महीपालो नाम, ततः सुरपालो नाम । अपि समुच्चये। पुरुषोत्तमः पुरुषश्रेष्ठो रामो रामपालो नाम । स्फुरदृश्यं दर्शनीयं स्टङ्गमम्भावितं प्रभावसम्मृद्धं रूपं यस्य, चारुण भाग्येन मन्यन्नः । जगदित्यादि रामभद्रानन्तरं भरतो नाम जगदवनैकधुरीण: महस्तेजो महानल द्रव पूज्यो वहिरिव सामयिको महोमहानलो यस्य । तथा च "समये यश्च तनोति तिग्मतां" । अपि लक्ष्मणो नाम । अपि शत्रुघ्नलक्ष्मण: शत्रुघ्ननामा इति चत्वारः | अन्यत्र म रामपालः जगदवनैकधुरीण: सामयिकेन महसा महान् अलोभरतोऽलुब्धः लक्ष्मणः श्रीमान् शत्रुघ्नलमणः गन्न लक्ष्मणं चिन्हं यस्य इति त्रयः ॥ ११ ॥ २ The Comm. has बृत्तिमा which is evidently a लिपिकरप्रमादः | २ Comm. महत्तेजो।