पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् | ( २८९ ) अभीत्यादि - 'मा भूद्रामविग्रहे रत्नादिलाभः अभिमानफलं महत्त्वमस्ति इति यत्त्वया प्रोक्तं तेन निमित्तेन शतशोऽनेकशः असुररक्षसां कुलानि विने- शुः विनष्टानि || १३० ।। यत् स्वधर्ममधर्म त्वं दुर्बलं प्रत्यपद्यथाः । रिपौ रामे च निःशङ्को नैतत्क्षेमंकरं चिरम् ॥ १३१ ॥ यदित्यादि---यधनै परस्त्रीभोगहरणं दुर्बलम् असारम् अश्रयसामावाहक- त्वात् । स्वधर्ममात्मीयमाचारं त्वं प्रत्यपद्यथाः प्रतिपन्नवानसि 'स्वधर्म एव नराशिनाम्' इति । लङि श्यनि रूपम् | यच्च रिपौ रामे निःशङ्कः निर्भयः बिहरसि ‘का मे साशङ्कता त्वाय' इति । तदेतदुभयमपि न चिरं क्षेमंकरं कल्याणकरम् । ‘क्षमप्रियभद्रेऽच |३|२|४४|' इति खच ॥ १३१ ॥ अन्वयाऽऽ दिविभिन्नानां यथा सख्यमनीप्सितम् । नैषीविरोधमध्येवं सार्धं पुरुषवानरैः ॥ १३२ ॥ अन्वयेत्यादि--यथा नरादीनाम् अन्वयादिभिरावेभिन्नत्वात् सख्यमनी- प्सितम् आप्तुमनिष्टम् एवं पुरुषवानरैः सार्ध विग्रहमपि नेपी: नेष्टवानसि ॥ १३२ ॥ , विराधं तपसां विघ्नं जघान विजितो यदि । वरो धनुर्भूतां रामः स कथं न विवक्षितः || १३३ ॥ विराधमित्यादि--तपसां विघ्नं विराधम् । विहन्यतेऽस्मिन्निति 'वञर्थे कविधानम्' इति कः । तादृकुछलेनापि हन्तुं न दोषायेति दर्शयति- धनुर्भुतां वरः श्रेष्ठः सन् विजितोऽभिभूतोऽपि रामो यदि जवान स कथं न विवक्षितः यतो राममध्यसौ जितवान् || १३३ || प्रणश्यन्नपि नाऽशक्नोदत्येतुं बाणगोचरम् | त्वयैवोक्तं महामायो मारीचो रामहस्तिनः ॥ १३४ ॥ प्रणश्यन्नित्यादि – मारीच: प्रणश्यन्नपि पलायनपरोऽपि सन् महामाय कनकमृगरूपधारित्वात् । रामहस्तिनः रामो हस्तीव तस्य बाणगोचरं बाणप,-- दवीम् अत्येतुमतिक्रमितुं नाशक्नोत् न शक्तवानिति त्वयैवोक्तम्, ममारेत्यभिद्- अता न मया । यदि शक्नोति अतिक्रमितुं न ममार ॥ १३४ ।। १ अन्वयादिभिः वंशादिभिः | २ निहन्तारम् । 2