नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितम् ।
पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः॥१०॥
नयविद्भिरिति ॥ नयविद्भिर्नीतिशास्त्रज्ञैर्नवे तस्मिन्राज्ञि विषये । तमधिकृत्येत्यर्थः । सद्धर्मयुद्धादिकमसत्कूटयुद्धादिकं चोपदर्शितम् । तस्मिन्राज्ञि पूर्वः पक्ष एवाभवत् । संक्रान्त इत्यर्थः ॥ उत्तरः पक्षो नाभवत् । न संक्रान्त इत्यर्थः ॥ तत्र सदसतोर्मध्ये सदेवाभिमतं नासत् । तदुद्भावनं तु ज्ञानार्थमेवेत्यर्थः ।। पक्षः साधनयोग्यार्थः । “पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु" इति केशवः ॥
पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः ।
नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥ ११॥
पश्चानामिति ॥ पृथिव्यादीनां पञ्चानां भूतानामपि गुणा गन्धादय उत्कर्षमतिशयं पुपुषुः ॥ अत्रोत्प्रेक्षते--तस्मिन्रघौ नाम नवे महीपाले सति सर्वं वस्तुजातं नवमिवाभवत् । तदेव भूतजातमिदानीमपूर्वगुणयोगादपूर्वमिवाभवदिति भावः ।।
यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥ १२ ॥
यथेति॥ यथा चन्दयतीत्याह्लादयतीति चन्द्र इन्दुः॥ चदिधातोरौणादिको रप्रत्ययः॥ प्रह्लादनादाह्लादकरणादन्वर्थोऽनुगतार्थनामकोऽभूत् । यथा च तपतीति तपनः सूर्यः॥ नन्द्यादित्वाल्ल्युप्रत्ययः ॥ प्रतापात्संतापजननादन्वर्थः । तथैव स राजा प्रकृतिरञ्जनादन्वर्थः सार्थकराजशब्दोऽभूत् ॥ यद्यपि राजशब्दो राजतेर्दीप्यर्थात्कनिन्प्रत्ययान्तो न तु रञ्जेस्तथापि धातूनामनेकार्थत्वाद्रञ्जनाद्राजेत्युक्तं कविना।।
कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने।
चतुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थद[१]र्शिना ॥ १३ ॥
काममिति ॥ विशाले तस्य रघोर्लोचने कामं कर्णान्तयोर्विश्रान्ते कर्णप्रान्तगते ॥ चक्षुष्मत्ता तु। चक्षुःफलं त्वित्यर्थः । सूक्ष्मान्कार्यार्थान्कर्तव्यार्थान्दर्शयति प्रकाशयतीति सूक्ष्मकार्यार्थदर्शिना शास्त्रेणैव ॥ शास्त्रं दृष्टिर्विवेकिनामिति भावः ।।
ल[२]ब्धप्रशमनस्वस्थमथैनं समुपस्थिता ।
पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा ॥ १४ ॥
लब्धेति ॥ अथ लब्धस्य राज्यस्य प्रशमनेन परिपन्थिनामनुरञ्जनप्रतीकाराभ्यां स्थिरीकरणेन स्वस्थं समाहितचित्तमेनं रघुं पङ्कजलक्षणा पद्मचिह्ना । श्रियोऽपि