उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि ।
त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे ॥ ७३॥
उत्खातेति॥उत्खातलोकत्रयकण्टकेऽपि। रावणादिकण्टकोद्धरणेन सर्वलोकोपकारिण्यपीत्यर्थः । सत्यप्रतिज्ञे सत्यसंधेऽपि । अविकत्थनेऽनात्मश्लाघिन्यपि । इत्थं स्नेहपात्रेऽपि त्वां प्रत्यकस्मादकारणात्कलुषप्रवृत्तौ गर्हितव्यापारे भरताग्रजे मे मन्युः कोपोऽस्त्येव ॥ सर्वगुणाच्छादकोऽयं दोष इत्यर्थः॥ सीतानुनयार्थोऽयं रामोपलम्भः॥
तवेति ॥ उरुकीर्तिस्तव श्वशुरो दशरथो मे सखा । ते पिता जनकः सतां विदुषां भवोच्छेदकरो ज्ञानोपदेशादिना संसारदुःखध्वंसकारी । त्वं पतिदेवतानां पतिव्रतानां धुर्यग्रे स्थिता ॥येन निमित्तेन ममानुकम्प्यानुग्राह्या नासि तत्किम् । न किंचिदित्यर्थः ॥
तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन् ।
इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते ॥ ७५॥
तपस्वीति ॥ तपस्विसंसर्गेण विनीतसत्त्वे शान्तजन्तुकेऽस्मिंस्तपोवने वीतभया निर्भीका वस । इतोऽस्मिन्वनेऽनघप्रसूतेः सुखप्रसूतेस्तेपत्यसंस्कारमयो जातकर्मादिरूपो विधिरनुष्ठानं भविष्यति ॥
अशून्येति ।। संनिविशन्ते येष्विति संनिवेशा उटजाः॥ अधिकरणार्थे घञ्प्रत्ययः । मुनीनां संनिवेशैरुटजैरशून्यतीरां पूर्णतीरां तमसः शोकस्य पापस्य वापहन्त्रीम् ॥ “तमस्तु क्लीबे पापे नरकशोकयोः" इत्यमरः ॥ तमसां नदीं वगाह्य तत्र स्नात्वा। बलिक्रियापेक्षया पूर्वकालता। तस्याः सैकतोत्सङ्गेषु बलिक्रियाभिरिष्टदेवतापूजाविधिभिस्ते मनसः प्रसादः संपत्स्यते भविष्यति ॥
पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बा[६]लेयमकृष्टरोहि ।
विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम् ॥७७॥
पुष्पमिति ॥ ऋतुरस्य प्राप्त आर्तवम् । स्वकालप्राप्तिमित्यर्थः । पुष्पं फलं च।