पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः श्रीठाकुरेण सहजकण्ठत उक्तम् – “इदानीं यावदपि तवाविश्वासः ।... सत्यं वदामि – यो रामः यः कृष्णस्तौ द्वावध्येकाधारेण रामकृष्णरूपं विभृतः । परन्तु तत्र वेदान्तदृष्ट्या न ।” - " वज्राहत इव नरेंद्रनाथः स्तम्भितोऽभवत् । सन्देहकारणादनुतप्तो भूत्वाऽसौ तीव्रवेदनया रुरोद | श्रीरामकृष्णः कोऽस्ति, कथमागतः - तदीया मर्मबाणी नरेन्द्रस्य हृदये स्वर्णाक्षरैमुद्रिता बभूव ।* १ श्रीरामकृष्णो नरेन्द्रनाथस्यान्तरे नवीनरूपं जग्राह अवतार – वरिष्टरूपेण । केवलमेतदेव न, सर्वेषां भावानां, धर्माणां, सर्वदेव देवीस्वरूपेण च । परवर्त्तिनि काले श्रीरामकृष्णदेवस्य यस्य प्रणाम- मन्त्रस्यासौ रचनामकार्षीत, तत्र सूत्ररूपेण श्रीठाकुरस्य यथार्थं स्वरूपं प्रकटीचकार ।

  • १८६५ ईसवीये अमेरिकातः स्वामिना विवेकानन्देन स्वीयमन्यतमं

गुरुभ्रातरं श्रीस्वामिनं ब्रह्मानन्दमुद्दिश्य लिखितम् – “रामकृष्णावतारे ज्ञान- भक्तिप्रेग्णाम् आनन्त्यम्, अर्थात् अनन्तं ज्ञानं कर्म प्रेम च, जीवान् प्रति अनन्ता करुणा च आसन् । युष्माभिः साम्प्रतमपि नावधारितम् । 'श्रुत्वा प्येनं वेद न चैव कश्चित्' What the whole Hindu race has thought in_ages, he lived in one life. His life is a living commentary to the Vedas of all nations. अर्थात् सम्पूर्णाऽपि हिन्दुजाति: युगसहस्रेण यं विचारमकरोत् श्रीठाकुर: किल एकस्मिन्नेव जीवने तस्य सर्वानपि भावान् उपालभत । तस्य जीवनं सर्वजाति- वेदानां जीवित-व्याख्यारूपम् ।” अन्यत्र तेन कथितम् – “सर्वेषां भावाना- मेतादृशः समन्वयः संसारस्येतिहासेऽन्यत्र कुत्रापि समन्वेषणेनापि न लप्स्यते । एतेनैवावधारणीयं यदद्यासौ कोऽयं देहं धृत्वा समागतः । अवतारकथनेन स लघुत्वमासादयति ।” ,