पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः स्थायी साधारण दास्यत्वमधिगतम् । पुस्तकानामनुवादेनापि किमपि द्रव्यमलभ्यत । परमेतेन- परिवारपोषणस्य कोऽपि स्थायी प्रबन्धो न जातः । मानसिकाशांतिवशात्कदाचिदऽसौ विक्षिप्त इव बभूव । तदानीं काले तेन विचारितम् – श्री ठाकुरस्य वचनं भगवान् शृणोति । यद्यसौ ममैतस्या अवस्थायाः कृते भगवतः समीपे प्रार्थनां विदधीत तदा कोऽप्युपायो भवितुं शक्नोति । स तु मम कमप्यनुरोधं न व्यर्थयति । भावनयाऽनया एकदा नरेन्द्रनाथो दक्षिणेश्वरमागतः, ठं चा- करोत् – “भवता कोऽपि प्रबन्धः कर्त्तव्यो भविष्यति । यदि भवान् स्वमातरमेकवारमपि कथयेत् तदानीं मम निखिलानि कष्टानि , निराकृतानि भवेयुः ।" श्रीठाकुरो मन्दस्वरेण प्रोवाच- "अरे, अहं तु मातुः सकाशादेतन्नाभ्यर्थयिष्यामि त्वं स्वयमेव कथं नाभ्यर्थयसे ? मातरं न स्वीकरोषि, अत एव तव इयन्ति कष्टानि सम्पद्यन्ते । ” - श्रीरामकृष्णवेन किंचिन्मौनमाश्रयता पुनरुक्तम् – “अद्य मंगल- वासरः । अहं ब्रवीमि अद्य रात्रौ मातुः पार्श्व गत्वा यत् त्वं प्रार्थयि व्यसि, माता तदेव दास्यति ।” 'इमां वार्ता' निशम्य नरेन्द्रनाथः किंचिदाश्वस्तो बभूव । एतस्य वार्ता मिथ्या भवितु' नार्हति । नरेन्द्रनाथेन मनस्येवं संकल्पः कृतो यदहं मन्दिरे गत्वा मातुः सन्निधौ पारिवारिकदुःखकष्टावसानाय प्रार्थनां विधास्यामि । निशाया एकप्रहरे व्यतीते श्रीठाकुरस्तं काली- मन्दिरे प्रैरयत् । मन्दिरे गत्वा मातुरभिमुखं पश्यतो नरेन्द्रनाथस्य हृदयमे कामन्दा- निर्वचनीयानन्देन संसावितमभूत् । तेनानुभूतं यत् माता चिन्मयी अनन्तप्रेम सौन्दर्यस्वरूपिणी च । स विह्वलत्वं गतः । मातुरुज्ज्वल- प्रकाशन तस्य हृदयं परिपूर्णमभवत् । भक्तिविनम्रचेतसा तेन मातुः प्रणामः कृतः । गृहगार्हस्थ्यचिन्ता तस्य मनसि नासीत् । मातुः कृपा-